Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी वर्ण कवचम्

अस्य श्रीबगलामुखी वर्णकवचस्य श्रीपरमेश्वरऋषिः अनुष्टुप् छन्दः श्रीबगलामुखी देवता ओं बीजं ह्लीं शक्तिः स्वाहा कीलकं श्रीबगला प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् –

जिह्वाग्रमादाय करेण देवीं

वामेन शत्रून् परिपीडयन्तीम् ।

गदाभिघातेन च दक्षिणेन

पीताम्बराढ्यां द्विभुजां नमामि ॥

कवचम् –

प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु ।

बकारो भ्रूयुगं पातु गकारः पातु लोचने ॥ १ ॥

लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् ।

खीकारं पातु मे तालु सकारं चिबुकं तथा ॥ २ ॥

र्वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः ।

बाहू ष्टकारकः पातु करौ पातु नकारकः ॥ ३ ॥

स्तनौ वकारकः पातु चकारो हृदयं मम ।

मकारः पातु मे नाभौ खकारो जठरं मम ॥ ४ ॥

कुक्षिं पकारकः पातु दकारः पातु मे कटिम् ।

स्तकारो जघनं पातु भकारः पातु मे गुदम् ॥ ५ ॥

गुह्यं यकारकः पातु जकारोऽवतु जानुनी ।

ऊरू ह्वकारकः पातु गुल्फौ पातु ककारकः ॥ ६ ॥

पादौ लकारकः पातु यकारोऽवतु सर्वदा ।

बुकारः पातु रोमाणि धिकारस्तु त्वचं तथा ॥ ७ ॥

विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा ।

प्राच्यां शकारकः पातु दक्षिणाश्यां यकारकः ॥ ८ ॥

वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु ।

भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु ॥ ९ ॥

ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु ।

इति ते कथितं देवि दिव्यमक्षरपञ्जरम् ॥ १० ॥

आयुरारोग्यसिद्ध्यर्थं महदैश्वर्यदायकम् ।

लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत् ॥ ११ ॥

देवासुरपिशाचेभ्यो भयं तस्य न हि क्वचित् ।

कर्मणेन सन्दर्शो त्रिषुलोकेषु सिद्ध्यते ॥ १२ ॥

महाभये राजकुले शतवारं पठेद्यहम् ।

गृहे रणे विवादे च सर्वापत्ति विमुच्यते ॥ १३ ॥

एतत् कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते ।

न तस्य सिद्ध्यते मन्त्रः कल्पकोटिशतैरपि ॥ १४ ॥

इति श्रीईश्वरपार्वतिसंवादे श्री बगलामुखी वर्ण कवचम् ॥

sri bagalamukhi varna kavacham