Skip to main content
पडताळणी प्रलंबित

श्री बाला कवचम् – २ (रुद्रयामले)

श्रीपार्वत्युवाच ।

देवदेव महादेव शङ्कर प्राणवल्लभ ।

कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ॥ १ ॥

श्रीमहेश्वर उवाच ।

श्रीबालाकवचं देवि महाप्राणाधिकं परम् ।

वक्ष्यामि सावधाना त्वं शृणुष्वावहिता प्रिये ॥ २ ॥

अथ ध्यानम् ।

अरुणकिरणजालैः रञ्जिताशावकाशा

विधृतजपवटीका पुस्तकाभीतिहस्ता ।

इतरकरवराढ्या फुल्लकह्लारसंस्था

निवसतु हृदि बाला नित्यकल्याणशीला ॥

अथ कवचम् ।

वाग्भवः पातु शिरसि कामराजस्तथा हृदि ।

शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १ ॥

ऐं क्लीं सौः वदने पातु बाला मां सर्वसिद्धये ।

हसकलह्रीं सौः पातु स्कन्धे भैरवी कण्ठदेशतः ॥ २ ॥

सुन्दरी नाभिदेशेऽव्याच्चर्चे कामकला सदा ।

भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ ३ ॥

ललाटे सुभगा पातु भगा मां कण्ठदेशतः ।

भगोदया तु हृदये उदरे भगसर्पिणी ॥ ४ ॥

भगमाला नाभिदेशे लिङ्गे पातु मनोभवा ।

गुह्ये पातु महावीरा राजराजेश्वरी शिवा ॥ ५ ॥

चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।

नारायणी सर्वगात्रे सर्वकार्य शुभङ्करी ॥ ६ ॥

ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा ।

पश्चिमे पातु वाराही ह्युत्तरे तु महेश्वरी ॥ ७ ॥

आग्नेय्यां पातु कौमारी महालक्ष्मीश्च निरृतौ ।

वायव्यां पातु चामुण्डा चेन्द्राणी पातु चैशके ॥ ८ ॥

जले पातु महामाया पृथिव्यां सर्वमङ्गला ।

आकाशे पातु वरदा सर्वतो भुवनेश्वरी ॥ ९ ॥

इदं तु कवचं नाम देवानामपि दुर्लभम् ।

पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ १० ॥

नामयो व्याधयस्तस्य न भयं च क्वचिद्भवेत् ।

न च मारीभयं तस्य पातकानां भयं तथा ॥ ११ ॥

न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च ।

गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥ १२ ॥

यदिदं कवचं ज्ञात्वा श्रीबालां यो जपेच्छिवे ।

स प्राप्नोति फलं सर्वं शिवसायुज्यसम्भवम् ॥ १३ ॥

इति श्रीरुद्रयामले श्री बाला कवचम् ।

sri bala kavacham 2 rudrayamale