Skip to main content
पडताळणी प्रलंबित

श्री बटुकभैरव कवचम्

श्रीभैरव उवाच ।

देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ।

म्रियन्ते साधका येन विना श्मशानभूमिषु ॥

रणेषु चातिघोरेषु महावायुजलेषु च ।

शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥

श्रीदेव्युवाच ।

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम् ।

गोपनीयं प्रयत्नेन मातृजारोपमं यथा ॥

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।

सात्त्विकं राजसं चैव तामसं देव तत् शृणु ॥

ध्यानम् –

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम् ॥ १ ॥

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।

नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं

बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ २ ॥

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि ।

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी नूपुराढ्यम् ॥ ३ ॥

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं मम सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।

कवचम् –

ओं शिरो मे भैरवः पातु ललाटं भीषणस्तथा ।

नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥ १

भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः ।

नासापुटौ तथोष्ठौ च भस्माङ्गः सर्वभूषणः ॥ २

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम ।

स्कन्धौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥ ३

पाणी कपाली मे पातु मुण्डमालाधरो हृदम् ।

वक्षःस्थलं तथा शान्तः कामचारी स्तनं मम ॥ ४

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा ।

क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ ५

कटिं पापौघनाशश्च बटुको लिङ्गदेशकम् ।

गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ ६

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः ।

गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ ७

आपादमस्तकं चैव आपदुद्धारणस्तथा ।

सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ ८

पातु मां वटुको देवो भैरवः सर्वकर्मसु ।

पूर्व स्यामसिताङ्गो मे दिशि रक्षतु सर्वदा ॥ ९

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः ।

नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ १०

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः ।

भीषणो भैरवः पातूत्तरस्यां दिशि सर्वदा ॥ ११

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः ।

ऊर्ध्वे पातु विधाता वै पाताले नन्दिको विभुः ॥ १२

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।

वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ १३

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा ।

डाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥ १४

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः ।

लाकिनीपुत्रकः पातु पशूनश्वानजांस्तथा ॥ १५

महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः ।

राज्यं राज्यश्रियं पायात् भैरवो भीतिहारकः ॥ १६

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च ।

तत् सर्वं रक्ष मे देव त्वं यतः सर्वरक्षकः ॥ १७

एतत् कवचमीशान तव स्नेहात् प्रकाशितम् ।

नाख्येयं नरलोकेषु सारभूतं च सुश्रियम् ॥ १८

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् ।

न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर ॥ १९

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् ।

अनेन कवचेशेन रक्षां कृत्वा द्विजोत्तमः ॥ २०

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः ।

मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः ॥ २१

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ।

भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो ॥ २२

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः ।

सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ २३

नमो भैरवदेवाय सारभूताय वै नमः ।

नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २४

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

sri batuka bhairava kavacham