Skip to main content
पडताळणी प्रलंबित

श्री मातङ्गी कवचम् (सुमुखी कवचम्)

श्रीपार्वत्युवाच ।

देवदेव महादेव सृष्टिसंहारकारक ।

मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥ १ ॥

शिव उवाच ।

अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् ।

तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥ २ ॥

शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे ।

अनया सदृशी विद्या न भूता न भविष्यति ॥ ३ ॥

ध्यानम् ।

शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् ।

एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥ ४ ॥

कवचम् ।

उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः ।

सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥ ५ ॥

महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु ।

ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥ ६ ॥

ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका ।

ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥ ७ ॥

ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा ।

ज्येष्ठमातङ्ग्यङ्गुलीर्मे अङ्गुल्यग्रे नमामि च ॥ ८ ॥

उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी ।

शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥ ९ ॥

उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः ।

स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥ १० ॥

अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् ।

भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥ ११ ॥

दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् ।

उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥ १२ ॥

रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः ।

रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥ १३ ॥

सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन ।

अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥ १४ ॥

भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् ।

प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥ १५ ॥

स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे ।

सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥ १६ ॥

स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा ।

वन्ध्या वा काकवन्ध्या वा मृतवत्सा च साङ्गना ॥ १७ ॥

जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् ।

शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥ १८ ॥

इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा ।

तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥ १९ ॥

इति श्रीरुद्रयामलतन्त्रे मातङ्गी सुमुखी कवचम् ।

sri matangi kavacham