Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी कवचम् – ३ (विश्वविजयम्)

कैलासाचलमध्यगं पुरहरं शान्तं त्रिनेत्रं शिवं

वामस्था गिरिजा प्रणम्य कवचं भूतिप्रदं पृच्छति ।

देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या

तस्याः शापविमुक्त मन्त्रसहितं प्रीत्याऽधुना ब्रूहि माम् ॥ १ ॥

श्रीशङ्कर उवाच ।

देवी श्रीभववल्लभे शृणु महामन्त्रं विभूतिप्रदं

देव्या वर्मयुतं समस्तसुखदं साम्राज्यदं मुक्तिदम् ।

तारं रुद्रवधू विरिञ्चिमहिला विष्णुप्रिया कामयुक्

कान्ते श्रीबगलानने मम रिपून् नाशाय युग्मं त्विति ॥ २ ॥

ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं

कार्यं साधय युग्मयुक्छिववधू वह्निप्रियान्तो मनुः ।

कंसारेस्तनयं च बीजमपरा शक्तिश्च वाणी तथा

कीलं श्रीमिति भैरवर्षिसहितं छन्दो विराट् सम्युतम् ॥ ३ ॥

स्वेष्टार्थस्य परस्य वेत्ति नितरां कार्यस्य सम्प्राप्तये

नानाऽसाध्यमहागदस्य नियतं नाशाय वीर्याप्तये ।

ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वा सहस्राख्यकं

दीर्घैः षट्कयुतैश्च रुद्रमहिलाबीजैर्विन्यस्याङ्गके ॥ ४ ॥

ध्यानम् –

सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं

हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् ।

हस्तैर्मुद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणै-

-र्व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥ ५ ॥

विनियोगः –

अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्र कवचस्य भैरव ऋषिः विराट् छन्दः श्रीबगलामुखी देवता क्लीं बीजं ऐं शक्तिः श्रीं कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ।

ऋष्यादिन्यासः –

भैरव ऋषये नमः शिरसि ।

विराट् छन्दसे नमः मुखे ।

श्रीबगलामुखी देवतायै नमः हृदि ।

क्लीं बीजाय नमः गुह्ये ।

ऐं शक्तये नमः पादयोः ।

श्रीं कीलकाय नमः सर्वाङ्गे ।

करन्यासः –

ओं ह्रां अङ्गुष्ठाभ्यां नमः ।

ओं ह्रीं तर्जनीभ्यां नमः ।

ओं ह्रूं मध्यमाभ्यां नमः ।

ओं ह्रैं अनामिकाभ्यां नमः ।

ओं ह्रौं कनिष्ठिकाभ्यां नमः ।

ओं ह्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –

ओं ह्रां हृदयाय नमः ।

ओं ह्रीं शिरसे स्वाहा ।

ओं ह्रूं शिखायै वषट् ।

ओं ह्रैं कवचाय हुम् ।

ओं ह्रौं नेत्रत्रयाय वौषट् ।

ओं ह्रः अस्त्राय फट् ।

मन्त्रोद्धारः –

ओं ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितकार्यं साधय साधय ह्रीं स्वाहा ।

कवचम् –

शिरो मे पातु ओं ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।

सम्बोधनपदं पातु नेत्रे श्रीबगलानने ॥ १ ॥

श्रुतौ मम रिपून् पातु नासिकां नाशयद्वयम् ।

पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ॥ २ ॥

देहि द्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम ।

कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ॥ ३ ॥

कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।

मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा ॥ ४ ॥

अष्टाधिकचत्वारिंशद्वर्णाढ्या बगलामुखी ।

रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥ ५ ॥

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु ।

मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ॥ ६ ॥

ओं ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु । [ह्लीं]

मुखिवर्णद्वयं पातु लिङ्गं मे मुष्कयुग्मकम् ॥ ७ ॥

जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।

वाचं मुखं तथा पदं षड्वर्णाः परमेश्वरी ॥ ८ ॥

जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी ।

स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥ ९ ॥

जिह्वां वर्णद्वयं पातु गुल्फौ मे कीलयेति च ।

पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ १० ॥

विनाशयपदं पातु पादाङ्गुल्योर्नखानि मे ।

ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥ ११ ॥

सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।

ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ १२ ॥

माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।

कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ १३ ॥

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।

ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ १४ ॥

इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः ।

राजद्वारे महादुर्गे पातु मां गणनायकः ॥ १५ ॥

श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।

द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ।

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम ॥ १६ ॥

इति ते कथितं देवि कवचं परमाद्भुतम् ।

श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदम् ॥ १७ ॥

अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ।

निर्धनो धनमाप्नोति कवचस्यास्य पाठतः ॥ १८ ॥

जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् ।

पठेदिदं हि कवचं निशायां नियमात् तु यः ॥ १९ ॥

यद्यत्कामयते कामं साध्यासाध्ये महीतले ।

तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी ॥ २० ॥

गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः ।

कवचं यः पठेद्देवि तस्याऽसाध्यं न किञ्चन ॥ २१ ॥

यं ध्यात्वा प्रजपेन्मन्त्रं सहस्रं कवचं पठेत् ।

त्रिरात्रेण वशं याति मृत्युं तं नात्र संशयः ॥ २२ ॥

लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ।

लिखित्वा ह्यदि तं नाम तं ध्यात्वा प्रजपेन्मनुम् ॥ २३ ॥

एकविंशद्दिनं यावत् प्रत्यहं च सहस्रकम् ।

जप्त्वा पठेत् तु कवचं चतुर्विंशतिवारकम् ॥ २४ ॥

संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा ।

विवादे विजयं तस्य सङ्ग्रामे जयमाप्नुयात् ॥ २५ ॥

श्मशाने च भयं नास्ति कवचस्य प्रभावतः ।

नवनीतं चाभिमन्त्र्य स्त्रीणां दद्यान्महेश्वरि ॥ २६ ॥

वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ।

श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ॥ २७ ॥

पादोदकेन स्पृष्ट्वा च लिखेल्लोहशलाकया ।

भूमौ शत्रोः स्वरूपं च हृदि नाम समालिखेत् ॥ २८ ॥

हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ।

ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः ॥ २९ ॥

म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ।

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् ॥ ३० ॥

धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ।

सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ॥ ३१ ॥

ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तति तं जनम् ।

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् ॥ ३२ ॥

बृहस्पतिसमो वापि विभवे धनदोपमः ।

कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ॥ ३३ ॥

कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ।

गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः ॥ ३४ ॥

एकादशशतं यावत् पुरश्चरणमुच्यते ।

पुरश्चर्याविहीनं तु न चेदं फलदायकम् ॥ ३५ ॥

न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ।

देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाप्नुयात् ॥ ३६ ॥

इदं कवचमज्ञात्वा भजेद्यो बगलामुखीम् ।

शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते ॥ ३७ ॥

दाराढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां

विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।

ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै

धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषां नृपः ॥ ३८ ॥

इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे विश्वविजयं नाम श्री बगलामुखी कवचम् ॥

sri bagalamukhi kavacham 3