Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म कवचम् (जगन्मङ्गलम्)

अस्य श्रीजगन्मङ्गलनामक कवचस्य सदाशिव ऋषिरनुष्टुप् छन्दः परब्रह्म देवता धर्मार्थकाममोक्षावाप्तये पाठे विनियोगः ॥

कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् ।

पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ १ ॥

परमात्मा शिरः पातु हृदयं परमेश्वरः ।

कण्ठं पातु जगत्पाता वदनं सर्वदृग्विभुः ॥ २ ॥

करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः ।

सर्वाङ्गं सर्वदा पातु परं ब्रह्म सनातनम् ॥ ३ ॥

श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।

ऋषिश्छन्दोऽनुष्टुबिति परब्रह्मा च देवता ॥ ४ ॥

चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ।

यः पठेद्ब्रह्मकवचमृषिन्यासपुरःसरम् ॥ ५ ॥

स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ।

भूर्जे विलिख्य गुटिका स्वर्णस्थां धारायेद्यदि ॥ ६ ॥

कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् ।

इत्येतत् परमब्रह्मकवचं ते प्रकाशितम् ॥ ७ ॥

दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ।

पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥ ८ ॥

ओं नमस्ते परमं ब्रह्म नमस्ते परमात्मने ।

निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ९ ॥

वाचिकं कायिकं वापि मानसं वा यथामति ।

आराधने परेशस्य भावशुद्धिर्विधीयते ॥ १० ॥

इति महानिर्वाणतन्त्रे तृतीयोल्लासे जगन्मङ्गलं नाम श्री ब्रह्म कवचम् ॥

sri brahma kavacham jaganmangalam