Skip to main content
पडताळणी प्रलंबित

श्री गायत्री कवचम् १

याज्ञवल्क्य उवाच ।

स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।

चतुःषष्टिकलानां च पातकानां च तद्वद ॥ १ ॥

मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ।

देहश्च देवतारूपो मन्त्ररूपो विशेषतः ।

क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ॥ २ ॥

ब्रह्मोवाच ।

अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामाथर्वाणि छन्दांसि, परब्रह्मस्वरूपिणी गायत्री देवता, भूर्बीजं, भुवः शक्तिः, स्वः कीलकं, श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ॥

ऋष्यादिन्यासः –

ओं ब्रह्मविष्णुरुद्र ऋषिभ्यो नमः शिरसि ।

ऋग्यजुःसामाथर्वच्छन्दोभ्यो नमः मुखे ।

परब्रह्मस्वरूपिणी गायत्रीदेवतायै नमः हृदि ।

भूः बीजाय नमः गुह्ये ।

भुवः शक्तये नमः पादयोः ।

स्वः कीलकाय नमः नाभौ ।

विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –

ओं भूर्भुवः स्वः तत्सवितुरिति अङ्गुष्ठाभ्यां नमः ।

ओं भूर्भुवः स्वः वरेण्यमिति तर्जनीभ्यां नमः ।

ओं भूर्भुवः स्वः भर्गो देवस्येति मध्यमाभ्यां नमः ।

ओं भूर्भुवः स्वः धीमहीति अनामिकाभ्यां नमः ।

ओं भूर्भुवः स्वः धियो यो नः इति कनिष्ठिकाभ्यां नमः ।

ओं भूर्भुवः स्वः प्रचोदयादिति करतल करपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –

ओं भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः ।

ओं भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा ।

ओं भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् ।

ओं भूर्भुवः स्वः धीमहीति कवचाय हुम् ।

ओं भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् ।

ओं भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ॥

प्रार्थना –

वर्णास्त्रां कुण्डिकाहस्तां शुद्धनिर्मलज्योतिषीम् ।

सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥

अथ ध्यानम् –

मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-

-र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।

गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणं

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

अथ कवचम् –

ओं गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।

ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥ १ ॥

पावकीं मे दिशं रक्षेत्पावकोज्ज्वलशालिनी ।

यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥ २ ॥

पावमानीं दिशं रक्षेत्पवमानविलासिनी ।

दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥ ३ ॥

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।

एवं दश दिशो रक्षेत् सर्वतो भुवनेश्वरी ॥ ४ ॥

ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ।

ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षकः ॥ ५ ॥

ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः ।

सप्त व्याहृतयः पान्तु सर्वदा बिन्दुसम्युतः ॥ ६ ॥

वेदमाता च मां पातु सरहस्या सदैवता ।

देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥ ७ ॥

चतुःषष्टिकला विद्या दिव्याद्या पातु देवता ।

बीजशक्तिश्च मे पातु पातु विक्रमदेवता ॥ ८ ॥

तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् ।

वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥ ९ ॥

देवस्य मे तु हृदयं धीमहीति गलं तथा ।

धियो मे पातु जिह्वायां यः पदं पातु लोचने ॥ १० ॥

ललाटे नः पदं पातु मूर्धानं मे प्रचोदयात् ।

तद्वर्णः पातु मूर्धानं सकारः पातु फालकम् ॥ ११ ॥

चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः ।

नासापुटे वकारो मे रेकारस्तु कपोलयोः ॥ १२ ॥

णिकारस्त्वधरोष्ठे च यकारस्तूर्ध्व ओष्ठके ।

आस्यमध्ये भकारस्तु र्गोकारस्तु कपोलयोः ॥ १३ ॥

देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः ।

स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ १४ ॥

मकारो हृदयं रक्षेद्धिकारो जठरं तथा ।

धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥ १५ ॥

गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् ।

प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशयोः ॥ १६ ॥

दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् ।

जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥ १७ ॥

सर्वतः सर्वदा पातु आपोज्योतीति षोडशी ।

इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥ १८ ॥

चतुःषष्टिकलाविद्यासकलैश्वर्यसिद्धिदम् ।

जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥ १९ ॥

स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ।

मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥ २० ॥

पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत्सकृत् ।

शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥ २१ ॥

भूर्जपत्रे लिखित्वैतत् स्वकण्ठे धारयेद्यदि ।

शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ॥ २२ ॥

त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् ।

पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् ॥ २३ ॥

ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शनात्ततः ।

भवन्ति तस्य तुल्यानि किमन्यत्कथयामि ते ॥ २४ ॥

अभिमन्त्रितगायत्रीकवचं मानसं पठेत् ।

तज्जलं पिबतो नित्यं पुरश्चर्याफलं भवेत् ॥ २५ ॥

लघुसामान्यकं मन्त्रं महामन्त्रं तथैव च ।

यो वेत्ति धारणां युञ्जन् जीवन्मुक्तः स उच्यते ॥ २६ ॥

सप्तव्याहृतयो विप्र सप्तावस्थाः प्रकीर्तिताः ।

सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥ २७ ॥

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।

सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥ २८ ॥

शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् ।

दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥ २९ ॥

भक्तिमान्यो भवेद्विप्रः सन्ध्याकर्म समाचरेत् ।

काले काले तु कर्तव्यं सिद्धिर्भवति नान्यथा ॥ ३० ॥

प्रणवं पूर्वमुद्धृत्य भूर्भुवःस्वस्तथैव च ।

तुर्यं सहैव गायत्रीजप एवमुदाहृतम् ॥ ३१ ॥

तुरीयपादमुत्सृज्य गायत्रीं च जपेद्द्विजः ।

स मूढो नरकं याति कालसूत्रमधोगतिः ॥ ३२ ॥

मन्त्रादौ जननं प्रोक्तं मन्त्रान्ते मृतसूतकम् ।

उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥ ३३ ॥

मन्त्रादौ पाशबीजं च मन्त्रान्ते कुशबीजकम् ।

मन्त्रमध्ये तु या माया गायत्री सफला भवेत् ॥ ३४ ॥

वाचिकं त्वेकमेव स्यादुपांशु शतमुच्यते ।

सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥ ३५ ॥

अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।

जपं चाक्षस्वरूपेणानामिकामध्यपर्वणि ॥ ३६ ॥

अनामा मध्यया हीना कनिष्ठादिक्रमेण तु ।

तर्जनीमूलपर्यन्तं गायत्रीजपलक्षणम् ॥ ३७ ॥

पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः ।

गायत्र्या वेदमूलत्वाद्वेदः पर्वसु गीयते ॥ ३८ ॥

दशभिर्जन्मजनितं शतेनैव पुरा कृतम् ।

त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥ ३९ ॥

प्रातः कालेषु कर्तव्यं सिद्धिं विप्रो य इच्छति ।

नादालये समाधिश्च सन्ध्यायां समुपासते ॥ ४० ॥

अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।

असङ्ख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥ ४१ ॥

विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् ।

वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥ ४२ ॥

गायत्रीं तु परित्यज्य अन्यमन्त्रमुपासते ।

सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥ ४३ ॥

ऋषिश्छन्दो देवताख्या बीजशक्तिश्च कीलकम् ।

विनियोगं न जानाति गायत्री निष्फला भवेत् ॥ ४४ ॥

वर्णमुद्रा ध्यानपदमावाहनविसर्जनम् ।

दीपं चक्रं न जानाति गायत्री निष्फला भवेत् ॥ ४५ ॥

शक्तिन्यासस्तथा स्थानं मन्त्रसम्बोधनं परम् ।

त्रिविधं यो न जानाति गायत्री निष्फला भवेत् ॥ ४६ ॥

पञ्चोपचारकांश्चैव होमद्रव्यं तथैव च ।

पञ्चाङ्गं च विना नित्यं गायत्री निष्फला भवेत् ॥ ४७ ॥

मन्त्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषितम् ।

व्यासो वाचस्पतिं जीवस्तुता देवी तपः स्मृतौ ॥ ४८ ॥

देवी जप्ता सहस्रं सा ह्युपपातकनाशिनी ।

लक्षजाप्ये तथा तच्च महापातकनाशिनी ॥ ४९ ॥

कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ।

न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।

शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ ५० ॥

इति श्रीमद्वसिष्ठसंहितायां श्री गायत्री कवचम् ।

sri gayatri kavacham