Skip to main content
पडताळणी प्रलंबित

श्री गायत्री कवचम् २

अस्य श्रीगायत्री कवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः गायत्री देवता भूः बीजं भुवः शक्तिः स्वः कीलकं श्रीगायत्री प्रीत्यर्थे जपे विनियोगः ।

ध्यानम् –

पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् ।

सावित्री ब्रह्मवरदां चन्द्रकोटिसुशीतलाम् ॥ १ ॥

त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् ।

वराऽभयाङ्कुशकशां हेमपात्राक्षमालिकाम् ॥ २ ॥

शङ्खचक्राब्जयुगलं कराभ्यां दधती पराम् ।

सितपङ्कजसंस्था च हंसारूढां सुखस्मिताम् ॥ ३ ॥

ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ॥ ४ ॥

ब्रह्मोवाच ।

विश्वामित्र महाप्राज्ञ गायत्रीकवचं शृणु ।

यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात् ॥ ५ ॥

सावित्री मे शिरः पातु शिखायाममृतेश्वरी ।

ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी ॥ ६ ॥

कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिके ।

गायत्री वदनं पातु शारदा दशनच्छदौ ॥ ७ ॥

द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती ।

साङ्ख्यायनी नासिका मे कपोलं चन्द्रहासिनी ॥ ८ ॥

चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी ।

स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥ ९ ॥

उदरं विश्वभोक्त्री च नाभिं पातु सुरप्रिया ।

जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥ १० ॥

पार्श्वौ मे पातु पद्माक्षी गुह्यं मे गोत्रिकाऽवतु ।

ऊर्वोरोङ्काररूपा च जान्वोः सन्ध्यात्मिकाऽवतु ॥ ११ ॥

जङ्घयोः पातु चाऽक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका ।

सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥ १२ ॥

सर्वाङ्गं वेदमाता च पातु मे सर्वदाऽनघा ।

इत्येतत् कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् ॥ १३ ॥

पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ।

त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानवाप्नुयात् ॥ १४ ॥

सर्वशास्त्रार्थतत्त्वज्ञः स भवेद्वेदवित्तमः ।

सर्वयज्ञफलं पुण्यं ब्रह्मान्ते समवाप्नुयात् ॥ १५ ॥

इति श्रीविश्वामित्रसंहितोक्तं श्री गायत्री कवचम् ।

sri gayatri kavacham 2