Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी कवचम् – २ (वैरिनाशकरम्)

श्रीभैरवी उवाच ।

श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।

इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ॥ १ ॥

वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम् ।

शुभदं स्मरणात् पुण्यं त्राहि मां दुःखनाशनम् ॥ २ ॥

श्रीभैरव उवाच ।

कवचं शृणु वक्ष्यामि भैरवि प्राणवल्लभे ।

पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ॥ ३ ॥

अस्य श्रीबगलामुखीकवचस्य नारद ऋषिः अनुष्टुप् छन्दः श्रीबगलामुखी देवता लं बीजं ईं शक्तिः ऐं कीलकं पुरुषार्थचतुष्टये जपे विनियोगः ॥

अथ कवचम् ।

शिरो मे बगला पातु हृदयमेकाक्षरी परा ।

ओं ह्रीं ओं मे ललाटे च बगला वैरिनाशिनी ॥ ४ ॥

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी ।

वैरिजिह्वाधरा पातु कण्ठं मे बगलामुखी ॥ ५ ॥

उदरं नाभिदेशं च पातु नित्यं परात्परा ।

परात्परतरा पातु मम गुह्यं सुरेश्वरी ॥ ६ ॥

हस्तौ चैव तथा पातु पार्वती परिपातु मे ।

विवादे विषमे घोरे सङ्ग्रामे रिपुसङ्कटे ॥ ७ ॥

पीताम्बरधरा पातु सर्वाङ्गं शिवनर्तकी ।

श्रीविद्या समयं पातु मातङ्गी पूरिता शिवा ॥ ८ ॥

पातु पुत्रं सुतां चैव कलत्रं कालिका मम ।

पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ॥ ९ ॥

इदं हि बगलादेव्याः कवचं मन्मुखोदितम् ।

न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ॥ १० ॥

पठनाद्धारणादस्य पूजनाद्वाञ्छितं लभेत् ।

इदं कवचमज्ञात्वा यो जपेद्बगलामुखीम् ॥ ११ ॥

पिबन्ति शोणितं तस्य योगिन्यः प्राप्य सादराः ।

वश्ये चाकर्षणे चैव मारणे मोहने तथा ॥ १२ ॥

महाभये विपत्तौ च पठेद्वा पाठयेत् तु यः ।

तस्य सर्वार्थसिद्धिः स्याद्भक्तियुक्तस्य पार्वती ॥ १३ ॥

इति श्रीरुद्रयामले वैरिनाशकर श्री बगलामुखी कवचम् ॥

sri bagalamukhi kavacham 2 vairinashakaram