Skip to main content
पडताळणी प्रलंबित

श्री सुब्रह्मण्य वज्रपञ्जर कवचम्

अस्य श्री सुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः श्री सुब्रह्मण्यो देवता, सं बीजं, स्वाहा शक्तिः, सः कीलकं, श्री सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

न्यासः –

हिरण्यशरीराय अङ्गुष्ठाभ्यां नमः ।

इक्षुधनुर्धराय तर्जनीभ्यां नमः ।

शरवणभवाय मध्यमाभ्यां नमः ।

शिखिवाहनाय अनामिकाभ्यां नमः ।

शक्तिहस्ताय कनिष्ठिकाभ्यां नमः ।

सकलदुरितमोचनाय करतलकरपृष्ठाभ्यां नमः ।

एवं हृदयादि न्यासः ॥

ध्यानम् ।

कनककुण्डलमण्डितषण्मुखं

वनजराजि विराजित लोचनम् ।

निशित शस्त्रशरासनधारिणं

शरवणोद्भवमीशसुतं भजे ॥

लमित्यादि पञ्चपूजा कुर्यात् ।

अगस्त्य उवाच ।

स्कन्दस्य कवचं दिव्यं नाना रक्षाकरं परम् ।

पुरा पिनाकिना प्रोक्तं ब्रह्मणोऽनन्तशक्तये ॥ १ ॥

तदहं सम्प्रवक्ष्यामि भद्रं ते शृणु नारद ।

अस्ति गुह्यं महापुण्यं सर्वप्राणि प्रियङ्करम् ॥ २ ॥

जपमात्रेण पापघ्नं सर्वकामफलप्रदम् ।

मन्त्रप्राणमिदं ज्ञेयं सर्वविद्यादिकारकम् ॥ ३ ॥

स्कन्दस्य कवचं दिव्यं पठनाद्व्याधिनाशनम् ।

पिशाच घोरभूतानां स्मरणादेव शान्तिदम् ॥ ४ ॥

पठितं स्कन्दकवचं श्रद्धयानन्यचेतसा ।

तेषां दारिद्र्यदुरितं न कदाचिद्भविष्यति ॥ ५ ॥

भूयः साम्राज्यसंसिद्धिरन्ते कैवल्यमक्षयम् ।

दीर्घायुष्यं भवेत्तस्य स्कन्दे भक्तिश्च जायते ॥ ६ ॥

अथ कवचम् ।

शिखां रक्षेत्कुमारस्तु कार्तिकेयः शिरोऽवतु ।

ललाटं पार्वतीसूनुः विशाखो भ्रूयुगं मम ॥ ७ ॥

लोचने क्रौञ्चभेदी च नासिकां शिखिवाहनः ।

कर्णद्वयं शक्तिधरः कर्णमूलं षडाननः ॥ ८ ॥

गण्डयुग्मं महासेनः कपोलौ तारकान्तकः ।

ओष्ठद्वयं च सेनानीः रसनां शिखिवाहनः ॥ ९ ॥

तालू कलानिधिः पातु दन्तां देवशिखामणिः ।

गाङ्गेयश्चुबुकं पातु मुखं पातु शरोद्भवः ॥ १० ॥

हनू हरसुतः पातु कण्ठं कारुण्यवारिधिः ।

स्कन्धावुमासुतः पातु बाहुलेयो भुजद्वयम् ॥ ११ ॥

बाहू भवेद्भवः पातु स्तनौ पातु महोरगः ।

मध्यं जगद्विभुः पातु नाभिं द्वादशलोचनः ॥ १२ ॥

कटिं द्विषड्भुजः पातु गुह्यं गङ्गासुतोऽवतु ।

जघनं जाह्नवीसूनुः पृष्ठभागं परन्तपः ॥ १३ ॥

ऊरू रक्षेदुमापुत्रः जानुयुग्मं जगद्धरः ।

जङ्घे पातु जगत्पूज्यः गुल्फौ पातु महाबलः ॥ १४ ॥

पादौ पातु परञ्ज्योतिः सर्वाङ्गं कुक्कुटध्वजः ।

ऊर्ध्वं पातु महोदारः अधस्तात्पातु शाङ्करिः ॥ १५ ॥

पार्श्वयोः पातु शत्रुघ्नः सर्वदा पातु शाश्वतः ।

प्रातः पातु परं ब्रह्म मध्याह्ने युद्धकौशलः ॥ १६ ॥

अपराह्ने गुहः पातु रात्रौ दैत्यान्तकोऽवतु ।

त्रिसन्ध्यं तु त्रिकालज्ञः अन्तस्थं पात्वरिन्दमः ॥ १७ ॥

बहिस्थितं पातु खढ्गी निषण्णं कृत्तिकासुतः ।

व्रजन्तं प्रथमाधीशः तिष्ठन्तं पातु पाशभृत् ॥ १८ ॥

शयने पातु मां शूरः मार्गे मां पातु शूरजित् ।

उग्रारण्ये वज्रधरः सदा रक्षतु मां वटुः ॥ १९ ॥

फलशृतिः ।

सुब्रह्मण्यस्य कवचं धर्मकामार्थमोक्षदम् ।

मन्त्राणां परमं मन्त्रं रहस्यं सर्वदेहिनाम् ॥ २० ॥

सर्वरोगप्रशमनं सर्वव्याधिविनाशनम् ।

सर्वपुण्यप्रदं दिव्यं सुभगैश्वर्यवर्धनम् ॥ २१ ॥

सर्वत्र शुभदं नित्यं यः पठेद्वज्रपञ्जरम् ।

सुब्रह्मण्यः सुसम्प्रीतो वाञ्छितार्थान् प्रयच्छति ।

देहान्ते मुक्तिमाप्नोति स्कन्दवर्मानुभावतः ॥ २२ ॥

इति स्कान्दे अगस्त्यनारदसंवादे सुब्रह्मण्य कवचम् ।

sri subrahmanya vajra panjara kavacham