Skip to main content
पडताळणी प्रलंबित

श्री महाकालभैरव कवचम्

श्रीदेव्युवाच ।

देवदेव महाबाहो भक्तानां सुखवर्धन ।

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १ ॥

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २ ॥

श्रीभैरव उवाच ।

गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३ ॥

महाकालमहं वन्दे सर्वसिद्धिप्रदायकम् ।

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४ ॥

कवचं तत्त्वदेवस्य पठनाद्घोरदर्शने ।

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५ ॥

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

साम्राज्यत्वं प्रियं दत्त्वा पुत्रवत् परिपालयेत् ॥ ६ ॥

कवचस्य ऋषिर्देवी कालिका दक्षिणा तथा ।

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

कालिका साधने चैव विनियोगः प्रकीर्तितः ॥ ७ ॥

श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

कपालकर्तृका वामे शूलं खट्वाङ्गं दक्षिणे ॥ ८ ॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ ९ ॥

विपरीतरतां तत्र कालिकां हृदयोपरि ।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

एवं भक्त्या यजेद्देवं सर्वसिद्धिः प्रजायते ॥ १० ॥

प्रणवं पूर्वमुच्चार्य महाकालाय तत्पदम् ।

नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११ ॥

अष्टाक्षरो महामन्त्रः सर्वाशापरिपूरकः ।

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२ ॥

कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३ ॥

मन्त्रग्रहणमात्रेण भवेत् सत्यं महाकविः ।

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४ ॥

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५ ॥

महाकालपदं दत्वा मायाबीजयुगं तथा ।

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६ ॥

राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७ ॥

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

ह्रीङ्कारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८ ॥

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९ ॥

पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २० ॥

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।

अनेन पठनाद्देवि विघ्ननाशो यथा भवेत् ॥ २१ ॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२ ॥

महाभीमः सदा पातु सर्वस्थानेषु वल्लभम् ।

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३ ॥

फलश्रुति –

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

श्रुणुयाद्वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १ ॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २ ॥

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् ।

त्रिसन्ध्यं पठनाद्देवि भवेन्नित्यं महाकविः ॥ ३ ॥

कुमारीं पूजयित्वा तु यः पठेद्भावतत्परः ।

न किञ्चिद्दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४ ॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५ ॥

तत्र तत्राभयं तस्य भवत्येव न संशयः ।

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६ ॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।

प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करे स्थिता ॥ ७ ॥

इदं कवचमज्ञात्वा कालं यो भजते नरः ।

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे ।

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८ ॥

इति रुद्रयामले महातन्त्रे श्री महाकालभैरव कवचम् ॥

sri maha kala bhairava kavacham rudrayamale