Skip to main content
पडताळणी प्रलंबित

श्री प्रत्यङ्गिरा कवचम् – ३ (त्रैलोक्यविजयम्)

जय धूम्रभीमाकारा सहस्रवदनाश्रिता ।

जलपिङ्गललोलाक्षी ज्वालाजिह्वा च नित्यशः ॥ १ ॥

निष्ठुरान् बन्धयेद्देवी तत्क्षणं नागपाशकैः ।

भृकुटी भीषणान् वत्स्यात् धत्ते पादप्रहारतः ॥ २ ॥

वामेऽरिमर्दनो दण्डो दक्षिणो वज्रभीषणो ।

प्रेतशिरकरो रुद्रध्यानोद्दामरमारकम् ॥ ३ ॥

अनन्त तक्षकौ देव्या कङ्कणं च विराजिते ।

वासुकी कण्ठहारश्च कर्कटी कटिमेखला ॥ ४ ॥

श्लिष्टो पद्म महापद्मौ पाद्यो कृत नूपुरौ ।

रुण्डमाल करे भूषा गोनसः कर्णमण्डले ॥ ५ ॥

गृहाभेतृपटेधृत्वा जाता दानवघातिनी ।

स्वयं सैन्याऽभयदा देवी परसैन्य भयङ्करी ॥ ६ ॥

नो यक्षैरखिलैर्न राक्षसगणैर्नो शाकिनी शक्तये [शतै]

नो वा चेटकखेटकैर्नवमहाभूतैः प्रभूतैरपि ।

नापि व्यन्तर मुद्गरे फलगणैर्नो मन्त्रयन्त्रैः परै

देवी त्वच्चरणार्चतां परिभवः प्रत्यङ्गिरे शक्यते ॥ ७ ॥

इति त्रैलोक्यविजय श्री प्रत्यङ्गिरा कवचम् ॥

trailokya vijaya sri pratyangira kavacham