Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म कवचम् (रुद्र कृतम्)

नमः कमलपत्राक्ष नमस्ते पद्मजन्मने ।

नमः सुरासुरगुरो कारिणे परमात्मने ॥ १ ॥

नमस्ते सर्वदेवेश नमो वै मोहनाशन ।

विष्णोर्नाभिस्थितवते कमलासनजन्मने ॥ २ ॥

नमो विद्रुमरक्ताङ्गपाणिपल्लवशोभिने ।

शरणं त्वां प्रपन्नोस्मि त्राहि मां भवसंसृतेः ॥ ३ ॥

पूर्वं नीलाम्बुदाकारं कुड्मलं ते पितामह ।

दृष्ट्वा रक्तमुखं भूयः पत्रकेसरसम्युतम् ॥ ४ ॥

पद्मं चानेकपत्रान्तमसङ्ख्यातं निरञ्जनम् ।

तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता ॥ ५ ॥

त्वां मुक्त्वा नान्यतस्त्राणं जगद्वन्द्य नमोऽस्तु ते ।

सावित्रीशापदग्धोहं लिङ्गं मे पतितं क्षितौ ॥ ६ ॥

इदानीं कुरु मे शान्तिं त्राहि मां सह भार्यया ।

ब्रह्मा वै पातु मे पादौ जङ्घे वै कमलासनः ॥ ७ ॥

विरिञ्चो मे कटिं पातु सृष्टिकृद्गुह्यमेव च ।

नाभिं पद्मनिभः पातु जठरं चतुराननः ॥ ८ ॥

उरस्तु विश्वसृक् पातु हृदयं पातु पद्मजः ।

सावित्रीपतिर्मे कण्ठं हृषीकेशो मुखं मम ॥ ९ ॥

पद्मवर्णश्च नयने परमात्मा शिरो मम ।

एवं न्यस्य गुरोर्नाम शङ्करो नामशङ्करः ।

नमस्ते भगवन् ब्रह्मन्नित्युक्त्वा विरराम ह ॥ १० ॥

इति श्रीपद्ममहापुराणे सृष्टिखण्डे चतुस्त्रिंशत्तमोऽध्याये रुद्र कृत श्री ब्रह्म कवचम् ॥

sri brahma kavacham rudra krutam