Skip to main content
पडताळणी प्रलंबित

श्री रेणुका कवचम्

जमदग्निप्रियां देवीं रेणुकामेकमातरं

सर्वारम्भे प्रसीद त्वं नमामि कुलदेवताम् ।

अशक्तानां प्रकारो वै कथ्यतां मम शङ्कर

पुरश्चरणकालेषु का वा कार्या क्रियापरा ॥

श्री शङ्कर उवाच ।

विना जपं विना दानं विना होमं महेश्वरि ।

रेणुका मन्त्रसिद्धि स्यान्नित्यं कवच पाठतः ॥

त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।

सर्वसिद्धिकरं लोके सर्वराजवशङ्करम् ॥

डाकिनीभूतवेतालब्रह्मराक्षसनाशनम् ।

पुरा देवासुरे युद्धे माहिषे लोके विग्रहे ॥

ब्रह्मणा निर्मिता रक्षा साधकानां सुखाय च ।

मन्त्रवीर्यं समोपेतं भूतापस्मारनाशनम् ॥

देवैर्देवस्य विजये सिद्धेः खेचरसिद्धये ।

दिवा रात्रमधीतं स्यात् रेणुका कवचं प्रिये ॥

वने राजगृहे युद्धे ब्रह्मराक्षससङ्कुले ।

बन्धने गमने चैव कर्मणि राजसङ्कटे ॥

कवच स्मरणादेव सर्वं कल्याणमश्नुते ।

रेणुकायाः महादेव्याः कवचं शृणु पार्वति ॥

यस्य स्मरणमात्रेण धर्मकामार्थभाजनम् ।

रेणुकाकवचस्यास्य ऋषिर्ब्रह्मा विधीयते ॥

छन्दश्चित्राह्वयं प्रोक्तं देवता रेणुका स्मृता ।

पृथ्वी बीजं रमा शक्तिः पुरुषार्थचतुष्टयम् ॥

विनियोगो महेशानि तदा काले प्रकीर्तितः ।

ध्यात्वा देवीं महामायां जगन्मातरमम्बिकाम् ॥

पूर्णकुम्भसमायुक्तां मुक्ताहारविराजिताम् ।

स्वर्णालङ्कारसम्युक्तां स्वर्णसिंहासनस्थिताम् ॥

मस्तके गुरुपादाब्जं प्रणम्य कवचं पठेत् ।

इन्द्रो मां रक्षतु प्राच्यां वह्नौ वह्निः सुरेश्वरि ॥

याम्यां यमः सदा पातु नैरृत्यां निरृतिस्तथा ।

पश्चिमे वरुणः पातु वायव्ये वायुदेवता ॥

धनश्चोत्तरे पातु ईशान्यामीश्वरो विभुः ।

ऊर्ध्वं ब्रह्मा सदा पातु अनन्तोऽधः सदाऽवतु ॥

पञ्चान्तको महेन्द्रश्च वामकर्णेन्दुभूषितः ।

प्रणवं पुटितं कृत्वा तत्कृत्वा प्रणवं पुनः ॥

समुच्चार्य ततो देवी कवचं प्रपठे तथा ।

ब्रह्माणी मे शिरः पातु नेत्रे पातु महेश्वरी ॥

वैष्णवी नासिकायुग्मं कर्णयोः कर्णवासिनी ।

कण्ठं मातु महालक्ष्मीर्हृदयं चण्डभैरवी ॥

बाहू मे बगला पातु करौ महिषमर्दिनी ।

कराङ्गुलीषु केशेषु नाभिं मे चर्चिकाऽवतु ॥

गुह्यं गुह्येश्वरी पातु ऊरू पातु महामतिः ।

जानुनी जननी रामा गुल्फयोर्नारसिंहिका ॥

वसुन्धरा सदा पादौ पायात्पादाङ्गुलीषु च ।

रोमकूपे मेदमज्जा रक्तमांसास्थिखण्डिके ॥

रेणुका जननी पातु महापुरनिवासिनी ।

रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥

पूर्वं बीजं समुच्चार्य सम्पुटक्रमयोगतः ।

मुद्रां वध्वा महेशानि गोलं न्यासं समाचरेत् ॥

अस्य श्रीरेणुका कवचमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः रेणुका देवता लं बीजं रेणुका प्रीत्यर्थे गोलन्यासे विनियोगः ।

ओं रां अङ्गुष्ठाभ्यां नमः ।

ओं रीं तर्जनीभ्यां नमः ।

ओं रूं मध्यमाभ्यां नमः ।

ओं रैं अनामिकाभ्यां नमः ।

ओं रौं कनिष्ठिकाभ्यां नमः ।

ओं रः करतलकरपृष्ठाभ्यां नमः ।

एवं हृदयादिन्यासः ।

ओं पं नमः मूर्ध्नि ।

ओं फं नमः दक्षिणनेत्रे ।

ओं बं नमः वामनेत्रे ।

ओं भं नमः दक्षिणनासापुटे ।

ओं मं नमः वामनासापुटे ।

ओं यं नमः दक्षिणकर्णे ।

ओं रं नमः वामकर्णे ।

ओं लं नमः मुखे ।

ओं वं नमः गुदे ।

कवचम् ।

ब्रह्माणी ब्रह्मभागे च शिरो धरणिधारिणी ।

रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥

भैरवी त्रिपुरा बाला वज्रा मे तारिणी परा ।

रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥

एषा मेऽङ्गं सदा पातु पार्वती हरवल्लभा ।

महिषासुरसंहर्त्री विधातृवरदायिनी ॥

मस्तके पातु मे नित्यं महाकाली प्रसीदतु ।

आकाशे ताडका पातु पाताले वह्निवासिनी ॥

वामदक्षिणयोश्चापि कालिका च करालिका ।

धनुर्बाणधरा चैव खड्गखट्वाङ्गधारिणी ॥

सर्वाङ्गं मे सदा पातु रेणुका वरदायिनी ।

रां रां रां रेणुके मातर्भार्गवोद्धारकारिणी ॥

राजराजकुलोद्भूते सङ्ग्रामे शत्रुसङ्कटे ।

जलाप्नाव्ये व्याघ्रभये तथा राजभयेऽपि च ।

श्मशाने सङ्कटे घोरे पाहि मां परमेश्वरि ॥

रूपं देहि यशो देहि द्विषतां नाशमेव च ।

प्रसादः स्याच्छुभो मातर्वरदा रेणुके भव ॥

ऐं महेशि महेश्वरि चण्डिके मे

भुजङ्गधारिणि शङ्खकपालिके ।

कनककुण्डलमण्डलभाजने

वपुरिदं च पुनीहि महेश्वरि ॥

इदं श्रीकवचं देव्याः रेणुकाया महेश्वरि ।

त्रिकालं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ॥

ग्रहणेऽर्कस्य चन्द्रस्य शुचिः पूर्वमुपोषितः ।

शतत्रयावृत्तिपाठाद्मन्त्रसिद्धिः प्रजायते ॥

नदीसङ्गममासाद्य नाभिमात्रोदकस्थितः ।

रविमण्डलमुद्वीक्ष्य जले तत्र स्थितां शिवाम् ॥

विचिन्त्य मण्डले देवी कार्ये सिद्धिर्भवेद्ध्रुवम् ।

घटं तव प्रतिष्ठाप्य विभूतिस्तत्र वेशयेत् ।

दीपं सर्षपतैलेन कवचं त्रिः पठेत्तदा ॥

भूतप्रेतपिशाचाश्च डाकिन्यो यातुधानिका ।

सर्व ते नाशमायान्ति कवचस्मरणात्प्रिये ॥

धनं धान्यं यशो मेधां यत्किञ्चिन्मनसेप्सितम् ।

कवचस्मरणादेव सर्वमाप्नोति नित्यशः ॥

इति श्री भैरवरुद्रयामले रेणुका कवचम् ।

sri renuka kavacham