Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति कवचम् (रुद्रयामले)

पार्वत्युवाच ।

नमस्तेऽस्तु त्रयीनाथ परमानन्दकारक ।

कवचं दक्षिणामूर्तेः कृपया वद मे प्रभो ॥ १ ॥

ईश्वर उवाच ।

वक्ष्येऽहं देवदेवेशि दक्षिणामूर्तिरव्ययम् ।

कवचं सर्वपापघ्नं वेदान्तज्ञानगोचरम् ॥ २ ॥

अणिमादि महासिद्धिविधानचतुरं शुभम् ।

वेदशास्त्रपुराणानि कविता तर्क एव च ॥ ३ ॥

बहुधा देवि जायन्ते कवचस्य प्रभावतः ।

ऋषिर्ब्रह्मा समुद्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् ॥ ४ ॥

देवता दक्षिणामूर्तिः परमात्मा सदाशिवः ।

बीजं वेदादिकं चैव स्वाहा शक्तिरुदाहृता ।

सर्वज्ञत्वेऽपि देवेशि विनियोगं प्रचक्षते ॥ ५ ॥

ध्यानम् –

अद्वन्द्वनेत्रममलेन्दुकलावतंसं

हंसावलम्बित समान जटाकलापम् ।

आनीलकण्ठमुपकण्ठमुनिप्रवीरान्

अध्यापयन्तमवलोकय लोकनाथम् ॥

कवचम् –

ओम् । शिरो मे दक्षिणामूर्तिरव्यात् फालं महेश्वरः ।

दृशौ पातु महादेवः श्रवणे चन्द्रशेखरः ॥ १ ॥

कपोलौ पातु मे रुद्रो नासां पातु जगद्गुरुः ।

मुखं गौरीपतिः पातु रसनां वेदरूपधृत् ॥ २ ॥

दशनां त्रिपुरध्वंसी चोष्ठं पन्नगभूषणः ।

अधरं पातु विश्वात्मा हनू पातु जगन्मयः ॥ ३ ॥

चुबुकं देवदेवस्तु पातु कण्ठं जटाधरः ।

स्कन्धौ मे पातु शुद्धात्मा करौ पातु यमान्तकः ॥ ४ ॥

कुचाग्रं करमध्यं च नखरान् शङ्करः स्वयम् ।

हृन्मे पशुपतिः पातु पार्श्वे परमपूरुषः ॥ ५ ॥

मध्यमं पातु शर्वो मे नाभिं नारायणप्रियः ।

कटिं पातु जगद्भर्ता सक्थिनी क्ष्च मृडः स्वयम् ॥ ६ ॥

कृत्तिवासाः स्वयं गुह्यामूरू पातु पिनाकधृत् ।

जानुनी त्र्यम्बकः पातु जङ्घे पातु सदाशिवः ॥ ७ ॥

स्मरारिः पातु मे पादौ पातु सर्वाङ्गमीश्वरः ।

इतीदं कवचं देवि परमानन्ददायकम् ॥ ८ ॥

ज्ञानवागर्थदं वीर्यमणिमादिविभूतिदम् ।

आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् ॥ ९ ॥

प्रातः काले शुचिर्भूत्वा त्रिवारं सर्वदा जपेत् ।

नित्यं पूजासमायुक्तः संवत्सरमतन्द्रितः ॥ १० ॥

जपेत् त्रिसन्ध्यं यो विद्वान् वेदशास्त्रार्थपारगः ।

गद्यपद्यैस्तथा चापि नाटकाः स्वयमेव हि ।

निर्गच्छन्ति मुखाम्भोजात्सत्यमेतन्न संशयः ॥ ११ ॥

इति रुद्रयामले उमामहेश्वरसंवादे श्री दक्षिणामूर्ति कवचम् ॥

sri dakshinamurthy kavacham rudrayamala