Skip to main content
पडताळणी प्रलंबित

त्रैलोक्यमोहन गणपति कवचम्

नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।

कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १ ॥

श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः ।

गणपतिर्देवता च गायत्री छन्दः एव च ।

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।

शक्तिः स्वाहा ग्लैं बीजं विनियोगस्य कीर्तितः ॥

अथ न्यासः ।

ओं श्रीं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः ।

ग्लौं गं गणपतये तर्जनीभ्यां नमः ।

वरवरद मध्यमाभ्यां नमः ।

सर्वजनं मे अनामिकाभ्यां नमः ।

वशमानय कनिष्ठिकाभ्यां नमः ।

स्वाहा करतलकरपृष्ठाभ्यां नमः ।

एवं हृदयादि न्यासः ॥

ध्यानम् –

हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा-

-दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।

बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल

व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ।

कवचं –

ओं ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् ।

श्रीं बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ १ ॥

हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी ।

कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ २ ॥

ग्लौं गं च गणपतये वाचं पातु विनायकः ।

वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ३ ॥

सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः ।

वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ४ ॥

नाभिं आनय मे पातु सर्वसिद्धिविनायकः ।

जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ५ ॥

गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा ।

दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ६ ॥

दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा ।

दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ७ ॥

प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः ।

कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ८ ॥

अधो गणपतिः पातु ऊर्धं पातु विनायकः ।

एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ ९ ॥

इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् ।

त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ १० ॥

इति श्रीमहागणपति त्रैलोक्यमोहनकवचं सम्पूर्णम् ।

trailokya mohana ganapati kavacham