Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणकाली कवचम् १

भैरव उवाच ।

कालिका या महाविद्या कथिता भुवि दुर्लभा ।

तथाऽपि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १ ॥

कवचस्तु महादेवि कथयस्वानुकम्पया ।

यदि नो कथ्यते मातर्विमुञ्चामि तदा तनुम् ॥ २ ॥

श्रीदेव्युवाच ।

शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितम् ।

न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३ ॥

कालिका जगतां माता शोकदुःखविनाशिनी ।

विशेषतः कलियुगे महापातकहारिणी ॥ ४ ॥

अथ कवचम् –

काली मे पुरतः पातु पृष्ठतश्च कपालिनी ।

कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ५ ॥

विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी ।

उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥ ६ ॥

वदनं पातु मे दीप्ता नीला च चिबुकं सदा ।

घना ग्रीवं सदा पातु बलाका बाहुयुग्मकम् ॥ ७ ॥

मात्रा पातु करद्वन्द्वं वक्षो मुद्रा सदावतु ।

मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥ ८ ॥

ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।

ऊरू माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकम् ॥ ९ ॥

कौमारी च कटिं पातु तथैव जानुयुग्मकम् ।

अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥ १० ॥

सन्धिस्थानं नारसिंही पत्रस्था देवतावतु ।

रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ११ ॥

तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे ।

ऊर्ध्वमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १२ ॥

हिंस्रेभ्यः सर्वदा पातु साधकं च जलाधिकात् ।

दक्षिणाकालिका देवी व्यापकत्वे सदावतु ॥ १३ ॥

इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणाम् ।

न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १४ ॥

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।

तत्र तत्राऽभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १५ ॥

इति कालीकुलसर्वस्वे श्री दक्षिणकालिका कवचम् ।

sri dakshina kali kavacham 1