Skip to main content
पडताळणी प्रलंबित

श्री ललितार्या कवच स्तोत्रम्

अगस्त्य उवाच ।

हयग्रीव महाप्राज्ञ मम ज्ञानप्रदायक ।

ललिता कवचं ब्रूहि करुणामयि चेत्तव ॥ १ ॥

हयग्रीव उवाच ।

निदानं श्रेयसामेतल्ललितावर्मसञ्ज्ञितम् ।

पठतां सर्वसिद्धिस्स्यात्तदिदं भक्तितश्शृणु ॥ २ ॥

ललिता पातु शिरो मे ललाटमम्बा मधुमतीरूपा ।

भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ ३ ॥

पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।

अधरोष्ठमादिशक्तिश्चक्रेशी पातु मे सदा चुबुकम् ॥ ४ ॥

कामेश्वर्यवतु कर्णौ कामाक्षी पातु मे गण्डयोर्युग्मम् ।

शृङ्गारनायिकाख्या वक्त्रं सिंहासनेश्वर्यवतु गलं ॥ ५ ॥

स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।

पाणी च पद्मनिलया पायादनिशं नखावलिं विजया ॥ ६ ॥

कोदण्डिनी च वक्षः कुक्षिं पायात्कुलाचलात्तभवा ।

कल्याणीत्ववतु लग्नं कटिं च पायात्कलाधरशिखण्डा ॥ ७ ॥

ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् ।

जङ्घे च षोडशी मे पायात्पादौ च पाशसृणिहस्ता ॥ ८ ॥

प्रातः पातु परा मां मध्याह्ने पातु मां मणिगृहान्तस्था ।

शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी सततम् ॥ ९ ॥

भार्यां रक्षतु गौरी पायात्पुत्रांश्च बिन्दुग्रहपीठा ।

श्रीविद्या च यशो मे शीलं चाव्याच्चिरं महाराज्ञी ॥ १० ॥

पवनमयि पावकमयि क्षोणीमयि व्योममयि कृपीटमयि ।

श्रीमयि शशिमयि रविमयि समयमयि प्राणमयि शिवमयीत्यादि ॥ ११ ॥

काली कपालिनी शूलिनी भैरवी मातङ्गी पञ्चमी त्रिपुरे ।

वाग्देवी विन्ध्यवासिनी बाले भुवनेशि पालय चिरं माम् ॥ १२ ॥

अभिनवसिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये ।

उपरि निपतन्ति तेषामुत्पलनयना कटाक्षकल्लोलाः ॥ १३ ॥

वर्गाष्टपङ्क्तिकाभिर्वशिनी मुखाभिरधिकृतां भवतीम् ।

चिन्तयतां पीतवर्णां पापोनिर्यात्य यत्नतो वदनात् ॥ १४ ॥

कनकलतावद्गौरीं कर्ण व्यालोल कुण्डल द्वितयाम् ।

प्रहसितमुखीं च भवतीं ध्यायन्तोये भवन्ति मूर्धन्याः ॥ १५ ॥

शीर्षांभोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् ।

अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ १६ ॥

मधुरस्मितां मदारुणनयनां मातङ्गकुंभवक्षोजाम् ।

चन्द्रावतंसिनीं त्वां सततं पश्यन्ति सुकृतिनः केचित् ॥ १७ ॥

ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।

अनुदिनमनुचिन्तयतां फलानिवक्तुं प्रगल्भते न शिवः ॥ १८ ॥

पूजा होमस्तर्पणं स्यान्मन्त्रशक्तिप्रभावतः ।

पुष्पाज्य तोयाभावेपि जपमात्रेण सिद्ध्यति ॥ १९ ॥

इति श्रीललितार्याकवचस्तोत्ररत्नम् ।

sri lalitha arya kavacham