Skip to main content
पडताळणी प्रलंबित

श्री तारा प्रत्यङ्गिरा कवचम्

तारायाः स्तम्भिनी देवी मोहिनी क्षोभिणी तथा ।

जृम्भिणी भ्रामिणी रौद्री संहारिण्यपि तारिणी ॥ १ ॥

शक्तयोरष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।

धारिता साधकेन्द्रेण सर्वशत्रुनिवारिणी ॥ २ ॥

ओं स्तम्भिनी स्त्रीं स्त्रीं मम शत्रून् स्तम्भय स्तम्भय ॥ ३ ॥

ओं मोहिनी स्त्रीं स्त्रीं मम शत्रून् मोहय मोहय ॥ ४ ॥

ओं क्षोभिणी स्त्रीं स्त्रीं मम शत्रून् क्षोभय क्षोभय ॥ ५ ॥

ओं जृम्भिणी स्त्रीं स्त्रीं मम शत्रून् जृम्भय जृम्भय ॥ ६ ॥

ओं भ्रामिणी स्त्रीं स्त्रीं मम शत्रून् भ्रामय भ्रामय ॥ ७ ॥

ओं रौद्री स्त्रीं स्त्रीं मम शत्रून् सन्तापय सन्तापय ॥ ८ ॥

ओं संहारिणी स्त्रीं स्त्रीं मम शत्रून् संहारय संहारय ॥ ९ ॥

ओं तारिणी स्त्रीं स्त्रीं सर्वापद्भ्यः सर्वभूतेभ्यः सर्वत्र मां रक्ष रक्ष स्वाहा ॥ १० ॥

फलश्रुतिः –

य इमां धारयेद्विद्यां त्रिसन्ध्यं वाऽपि यः पठेत् ।

स दुःखं दूरतस्त्यक्त्वा हन्याच्छत्रून् न संशयः ॥ ११ ॥

रणे राजकुले दुर्गे महाभये विपत्तिषु ।

विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरम् ॥ १२ ॥

अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।

मन्त्राक्षरमपि ध्यायन् चिन्तयेन्नीलसरस्वतीम् ॥ १३ ॥

अचिरेनैव तस्यासन् करस्था सर्वसिद्धयः ।

ओं ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १४ ॥

इदं कवचं धीयानो नित्यं (यो) धारयेन्नरः ।

न क्वापि भयमाप्नोति सर्वत्र जयमाप्नुयात् ॥ १५ ॥

इति श्रीरुद्रयामले श्रीमदुग्रतरा प्रत्यङ्गिरा कवचम् ।

sri tara pratyangira kavacham