Skip to main content
पडताळणी प्रलंबित

श्री बाला कवचम्

वन्दे सिन्दूरवदनां तरुणारुणसन्निभाम् ।

अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥

फुल्लपङ्कजमध्यस्थां मन्दस्मितमनोहराम् ।

दशभिर्वयसा हारियौवनाचार रञ्जिताम् ।

काश्मीरकर्दमालिप्ततनुच्छाया विराजिताम् ॥

वाग्भवः पातु शिरसि कामराजस्तथा हृदि ।

शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १ ॥

ब्रह्माणी पातु मां पूर्वे दक्षिणे पातु वैष्णवी ।

पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ २ ॥

आग्नेय्यां पातु कौमारी महालक्ष्मीश्च निरृतौ ।

वायव्यां पातु चामुण्डी इन्द्राणी पातु चैश्वरे ॥ ३ ॥

अधश्चोर्ध्वं च प्रसृता पृथिव्यां सर्वमङ्गला ।

ऐं‍कारिणी शिरः पातु क्लीं‍कारी हृदयं मम ॥ ४ ॥

सौः पातु पादयुग्मं मे सर्वाङ्गं सकलाऽवतु ।

ओं वाग्भवी शिरः पातु पातु फालं कुमारिका ॥ ५ ॥

भ्रूयुग्मं शङ्करी पातु श्रुतियुग्मं गिरीश्वरी ।

नेत्रे त्रिणेत्रवरदा नासिकां मे महेश्वरी ॥ ६ ॥

ओष्ठौ पूगस्तनी पातु चिबुकं दशवर्षिकी ।

कपोलौ कमनीयाङ्गी कण्ठं कामार्चितावतु ॥ ७ ॥

बाहू पातु वराभीतिधारिणी परमेश्वरी ।

वक्षः प्रदेशं पद्माक्षी कुचौ काञ्चीनिवासिनी ॥ ८ ॥

उदरं सुन्दरी पातु नाभिं नागेन्द्रवन्दिता ।

पार्श्वे पशुत्वहारिणी पृष्ठं पापविनाशिनी ॥ ९ ॥

कटिं कर्पूरविद्येशी जघनं ललिताम्बिका ।

मेढ्रं महेशरमणी पातूरू फाललोचना ॥ १० ॥

जानुनी जयदा पातु गुल्फौ विद्याप्रदायिनी ।

पादौ शिवार्चिता पातु प्रपदौ त्रिपदेश्वरी ॥ ११ ॥

सर्वाङ्गं सर्वदा पातु मम त्रिपुरसुन्दरी ।

वित्तं वित्तेश्वरी पातु पशून्पशुपतिप्रिया ।

पुत्रान्पुत्रप्रदा पातु धर्मान्धर्मप्रदायिनी ॥ १२ ॥

क्षेत्रं क्षेत्रेशवनिता गृहं गम्भीरनादिनी ।

धातून्धातुमयी पातु सर्वं सर्वेश्वरी मम ॥ १३ ॥

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।

तत्सर्वं रक्ष मे देवि बाले त्वं पापनाशिनी ॥ १४ ॥

इति श्री बाला कवचम् ।

sri bala kavacham