Skip to main content

कवचम्

📄️श्री बगलामुखी वर्ण कवचम्

अस्य श्रीबगलामुखी वर्णकवचस्य श्रीपरमेश्वरऋषिः अनुष्टुप् छन्दः श्रीबगलामुखी देवता ओं बीजं ह्लीं शक्तिः स्वाहा कीलकं श्रीबगला प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

📄️श्री गुह्यकाली वज्र कवचम् (विश्वमङ्गलम्)

अस्य विश्वमङ्गलं नाम श्री गुह्यकाली महावज्रकवचस्य संवर्त ऋषिः अनुष्टुप् छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, स्फ्रें शक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वक आत्मरक्षणे जपे विनियोगः ॥

📄️श्री काली सहस्राक्षरी

ओं क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं हूं दक्षिणे कालिके क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं हूं स्वाहा शुचिजाया महापिशाचिनी दुष्टचित्तनिवारिणी क्रीं कामेश्वरी वीं हं वाराहिके ह्रीं महामाये खं खः क्रोधाधिपे श्रीमहालक्ष्यै सर्वहृदयरञ्जनि वाग्वादिनीविधे त्रिपुरे हस्रिं हसकहलह्रीं हस्रैं ओं ह्रीं क्लीं मे स्वाहा ओं ओं ह्रीं ईं स्वाहा दक्षिण कालिके क्रीं हूं ह्रीं स्वाहा खड्गमुण्डधरे कुरुकुल्ले तारे ओं ह्रीं नमः भयोन्मादिनी भयं मम हन हन पच पच मथ मथ फ्रें विमोहिनी सर्वदुष्टान् मोहय मोहय हयग्रीवे सिंहवाहिनी सिंहस्थे अश्वारुढे अश्वमुरिप विद्राविणी विद्रावय मम शत्रून् ये मां हिंसितुमुद्यतास्तान् ग्रस ग्रस महानीले बलाकिनी नीलपताके क्रें क्रीं क्रें कामे सङ्क्षोभिणी उच्छिष्टचाण्डालिके सर्वजगद्वशमानय वशमानय मातङ्गिनी उच्छिष्टचाण्डालिनी मातङ्गिनी सर्ववशङ्करी नमः स्वाहा विस्फारिणी कपालधरे घोरे घोरनादिनी भूर शत्रून् विनाशिनी उन्मादिनी रों रों रों रीं ह्रीं श्रीं ह्सौः सौं वद वद क्लीं क्लीं क्लीं क्रीं क्रीं क्रीं कति कति स्वाहा काहि काहि कालिके शम्बरघातिनी कामेश्वरी कामिके ह्रं ह्रं क्रीं स्वाहा हृदयाहये ओं ह्रीं क्रीं मे स्वाहा ठः ठः ठः क्रीं ह्रं ह्रीं चामुण्डे हृदयजनाभि असूनवग्रस ग्रस दुष्टजनान् अमून शङ्खिनी क्षतजचर्चितस्तने उन्नतस्तने विष्टम्भकारिणि विद्याधिके श्मशानवासिनी कलय कलय विकलय विकलय कालग्राहिके सिंहे दक्षिणकालिके अनिरुद्धये ब्रूहि ब्रूहि जगच्चित्रिरे चमत्कारिणि हं कालिके करालिके घोरे कह कह तडागे तोये गहने कानने शत्रुपक्षे शरीरे मर्दिनि पाहि पाहि अम्बिके तुभ्यं कल विकलायै बलप्रमथनायै योगमार्ग गच्छ गच्छ निदर्शिके, देहिनि, दर्शनं देहि देहि मर्दिनि महिषमर्दिन्यै स्वाहा, रिपून् दर्शने दर्शय दर्शय सिंहपूरप्रवेशिनि वीरकारिणि क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं फट् स्वाहा शक्तिरूपायै रों वा गणपायै रों रों रों व्यामोहिनि यन्त्रनिके महाकायायै प्रकटवदनायै लोलजिह्वायै मुण्डमालिनि महाकालरसिकायै नमो नमः ब्रह्मरन्ध्रमेदिन्यै नमो नमः शत्रुविग्रहकलहान् त्रिपुरभोगिन्यै विषज्वालामालिनी तन्त्रनिके मेघप्रभे शवावतंसे हंसिके कालि कपालिनि कुल्ले कुरुकुल्ले चैतन्यप्रभे प्रज्ञे तु साम्राज्ञि ज्ञान ह्रीं ह्रीं रक्ष रक्ष ज्वालाप्रचण्डचण्डिकेयं शक्तिमार्तण्डभैरवि विप्रचित्तिके विरोधिनि आकर्णय आकर्णय पिशिते पिशितप्रिये नमो नमः खः खः खः मर्दय मर्दय शत्रून् ठः ठः ठः कालिकायै नमो नमः ब्राह्म्यै नमो नमः माहेश्वर्यै नमो नमः कौमार्यै नमो नमः वैष्णव्यै नमो नमः वाराह्यै नमो नमः इन्द्राण्यै नमो नमः चामुण्डायै नमो नमः अपराजितायै नमो नमः नारसिंहिकायै नमो नमः कालि महाकालिके अनिरुद्धके सरस्वति फट् स्वाहा पाहि पाहि ललाटं भल्लाटनी अस्त्रीकले जीववहे वाचं रक्ष रक्ष परविद्यां क्षोभय क्षोभय आकृष्य आकृष्य कट कट महामोहिनिके चीरसिद्धिके कृष्णरूपिणी अञ्जनसिद्धिके स्तम्भिनि मोहिनि मोक्षमार्गानि दर्शय दर्शय स्वाहा ॥

📄️श्री कामकलाकाली कवचम् (त्रैलोक्यमोहनम्)

अस्य श्री त्रैलोक्यमोहन रहस्य कवचस्य त्रिपुरारिः ऋषिः विराट् छन्दः भगवती कामकलाकाली देवता फ्रें बीजं योगिनी शक्तिः कामार्णं कीलकं डाकिनि तत्त्वं श्रीकामकलाकाली प्रीत्यर्थं पुरुषार्थचतुष्टये विनियोगः ॥

📄️श्री कुमार कवचम्

ओं नमो भगवते भवबन्धहरणाय, सद्भक्तशरणाय, शरवणभवाय, शाम्भवविभवाय, योगनायकाय, भोगदायकाय, महादेवसेनावृताय, महामणिगणालङ्कृताय, दुष्टदैत्य संहार कारणाय, दुष्क्रौञ्चविदारणाय, शक्ति शूल गदा खड्ग खेटक पाशाङ्कुश मुसल प्रास तोमर वरदाभय करालङ्कृताय, शरणागत रक्षण दीक्षा धुरन्धर चरणारविन्दाय, सर्वलोकैक हर्त्रे, सर्वनिगमगुह्याय, कुक्कुटध्वजाय, कुक्षिस्थाखिल ब्रह्माण्ड मण्डलाय, आखण्डल वन्दिताय, हृदेन्द्र अन्तरङ्गाब्धि सोमाय, सम्पूर्णकामाय, निष्कामाय, निरुपमाय, निर्द्वन्द्वाय, नित्याय, सत्याय, शुद्धाय, बुद्धाय, मुक्ताय, अव्यक्ताय, अबाध्याय, अभेद्याय, असाध्याय, अविच्छेद्याय, आद्यन्त शून्याय, अजाय, अप्रमेयाय, अवाङ्मानसगोचराय, परम शान्ताय, परिपूर्णाय, परात्पराय, प्रणवस्वरूपाय, प्रणतार्तिभञ्जनाय, स्वाश्रित जनरञ्जनाय, जय जय रुद्रकुमार, महाबल पराक्रम, त्रयस्त्रिंशत्कोटि देवतानन्दकन्द, स्कन्द, निरुपमानन्द, मम ऋणरोग शतृपीडा परिहारं कुरु कुरु, दुःखातुरुं ममानन्दय आनन्दय, नरकभयान्मामुद्धर उद्धर, संसृतिक्लेशसि हि तं मां सञ्जीवय सञ्जीवय, वरदोसि त्वं, सदयोसि त्वं, शक्तोसि त्वं, महाभुक्तिं मुक्तिं दत्वा मे शरणागतं, मां शतायुषमव, भो दीनबन्धो, दयासिन्धो, कार्तिकेय, प्रभो, प्रसीद प्रसीद, सुप्रसन्नो भव वरदो भव, सुब्रह्मण्य स्वामिन्, ओं नमस्ते नमस्ते नमस्ते नमः ॥

📄️श्री रुद्र कवचम्

ओं अस्य श्री रुद्र कवचस्तोत्र महामन्त्रस्य दूर्वासऋषिः अनुष्ठुप् छन्दः त्र्यम्बक रुद्रो देवता ह्रां बीजं श्रीं शक्तिः ह्रीं कीलकं मम मनसोऽभीष्टसिद्ध्यर्थे जपे विनियोगः ।

📄️श्री सुब्रह्मण्य वज्रपञ्जर कवचम्

अस्य श्री सुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः श्री सुब्रह्मण्यो देवता, सं बीजं, स्वाहा शक्तिः, सः कीलकं, श्री सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।