Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड चतुर्दशः

॥ अशोकवनिकाविचयः ॥

स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।

अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ १ ॥

स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः ।

पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥ २ ॥

सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् ।

उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ ३ ॥

अथाम्रवणसञ्छन्नां लताशतसमावृताम् ।

ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ४ ॥

स प्रविश्य विचित्रां तां विहगैरभिनादिताम् ।

राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५ ॥

विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।

उदितादित्यसङ्काशां ददर्श हनुमान्कपिः ॥ ६ ॥

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।

कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ७ ॥

प्रहृष्टमनुजे काले मृगपक्षिसमाकुले ।

मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ॥ ८ ॥

मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।

सुखप्रसुप्तान्विहगान्बोधयामास वानरः ॥ ९ ॥

उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः ।

अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ १० ॥

पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः ।

अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ११ ॥

दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम् ।

दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२ ॥

वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः ।

रराज वसुधा तत्र प्रमदेव विभूषिता ॥ १३ ॥

तरस्विना ते तरवस्तरसाभिप्रकम्पिताः ।

कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ १४ ॥

निर्धूतपत्रशिखराः शीर्णपुष्पफला द्रुमाः ।

निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५ ॥

हनूमता वेगवता कम्पितास्ते नगोत्तमाः ।

पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६ ॥

विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः ।

बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ १७ ॥

निर्धूतकेशी युवतिर्यथा मृदितवर्णका ।

निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥ १८ ॥

तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता ।

बभूवाशोकवनिका प्रभग्नवरपादपा ॥ १९ ॥

महालतानां दामानि व्यधमत्तरसा कपिः ।

यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ २० ॥

स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।

तथा काञ्चनभूमीश्च ददर्श विचरन्कपिः ॥ २१ ॥

वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।

महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२ ॥

मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्‍टिमाः ।

काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३ ॥

फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।

नत्यूहरुतसङ्घुष्टा हंससारसनादिताः ॥ २४ ॥

दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः ।

अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ २५ ॥

लताशतैरवतताः सन्तानकुसुमावृताः ।

नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ २६ ॥

ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् ।

विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ २७ ॥

शिलागृहैरवततं नानावृक्षैः समाकुलम् । [समावृतम्]

ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ २८ ॥

ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।

अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥

जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।

वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ३० ॥

पुनरावृत्ततोयां च ददर्श स महाकपिः ।

प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ३१ ॥

तस्यादूराच्च पद्मिन्यो नाना द्विजगणायुताः । [-स]

ददर्श हरिशार्दूलो हनुमान्मारुतात्मजः ॥ ३२ ॥

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।

मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ३३ ॥

विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् ।

प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ ३४ ॥

काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ।

ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः ॥ ३५ ॥

सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ।

लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥ ३६ ॥

काञ्चनीं शिंशुपामेकां ददर्श हनुमान्कपिः ।

वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ ३७ ॥

सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।

सुवर्णवृक्षानपरान्ददर्श शिखिसन्निभान् ॥ ३८ ॥

तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः ।

अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥ ३९ ॥

तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ।

किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ ४० ॥

स पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् ।

तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम् ॥ ४१ ॥

इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ।

इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥ ४२ ॥

अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।

चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता ॥ ४३ ॥

इयं च नलिनी रम्या द्विजसङ्घनिषेविता ।

इमां सा राममहिषी ध्रुवमेष्यति जानकी ॥ ४४ ॥ [नूनं]

सा रामा राममहिषी राघवस्य प्रिया सती ।

वनसञ्चारकुशला ध्रुवमेष्यति जानकी ॥ ४५ ॥ [नूनं]

अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा ।

वनमेष्यति सार्येह रामचिन्तानुकर्शिता ॥ ४६ ॥

रामशोकाभिसन्तप्ता सा देवी वामलोचना ।

वनवासे रता नित्यमेष्यते वनचारिणी ॥ ४७ ॥

वनेचराणां सततं नूनं स्पृहयते पुरा ।

रामस्य दयिता भार्या जनकस्य सुता सती ॥ ४८ ॥

सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।

नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी ॥ ४९ ॥

तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।

शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥ ५० ॥

यदि जीवति सा देवी ताराधिपनिभानना ।

आगमिष्यति साऽवश्यमिमां शिवजलां नदीम् ॥ ५१ ॥

एवं तु मत्वा हनुमान्महात्मा

प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ।

अवेक्षमाणश्च ददर्श सर्वं

सुपुष्पिते पर्णघने निलीनः ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

valmiki ramayan sundarakand adhyay 14