Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड षट्पञ्चाशः

॥ प्रीतिप्रयाणोत्पतनम् ॥

ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् ।

अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ १ ॥

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।

भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत ॥ २ ॥

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ३ ॥

शरैः सुसङ्कुलां कृत्वा लङ्कां परबलार्दनः ।

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ४ ॥

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।

भवेदाहवशूरस्य तथा त्वमुपपादय ॥ ५ ॥

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।

निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ ६ ॥

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।

यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ ७ ॥

एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः ।

गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ ८ ॥

ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।

आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ ९ ॥

तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।

सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ॥ १० ॥

बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।

उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ॥ ११ ॥

तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव सर्वतः ।

प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ॥ १२ ॥

देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।

प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः ॥ १३ ॥

वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।

वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः ॥ १४ ॥

निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।

नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ॥ १५ ॥

मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।

जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ॥ १६ ॥

कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ।

सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ॥ १७ ॥

लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।

नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ॥ १८ ॥

बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।

महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ॥ १९ ॥

लतापादपसम्बाधं सिंहाध्युषितकन्दरम् ।

व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलोदकम् ॥ २० ॥

तमारुरोह हनुमान्पर्वतं पवनात्मजः ।

रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥ २१ ॥

तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।

सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ॥ २२ ॥

स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ।

दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः ॥ २३ ॥

अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ।

ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ २४ ॥

स मारुत इवाकाशं मारुतस्यात्मसम्भवः ।

प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ २५ ॥

स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।

ररास सह तैर्भूतैः प्रविशन्वसुधातलम् ॥ २६ ॥

कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।

तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ॥ २७ ॥

निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ।

कन्दरोदरसंस्थानां पीडितानां महौजसाम् ॥ २८ ॥

सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे ।

स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ॥ २९ ॥

विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ।

अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ॥ ३० ॥

निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ।

किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा ॥ ३१ ॥

पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।

स च भूमिधरः श्रीमान्बलिना तेन पीडितः ॥ ३२ ॥

सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।

दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ॥ ३३ ॥

धरण्यां समतां यातः स बभूव धराधरः ।

स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।

कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥

valmiki ramayan sundarakand adhyay 56