Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड अष्टचत्वारिंशः

॥ इन्द्रजिदभियोगः ॥

ततः स रक्षोऽधिपतिर्महात्मा

हनूमताऽक्षे निहते कुमारे ।

मनः समाधाय तदेन्द्रकल्पं

समादिदेशेन्द्रजितं सरोषात् ॥ १ ॥

त्वमस्त्रविच्छस्त्रविदां वरिष्ठः

सुरासुराणामपि शोकदाता ।

सुरेषु सेन्द्रेषु च दृष्टकर्मा

पितामहाराधनसञ्चितास्त्रः ॥ २ ॥

तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।

न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ॥ ३ ॥

न कश्चित्त्रिषु लोकेषु सम्युगे नगतश्रमः ।

भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।

देशकालविभागज्ञस्त्वमेव मतिसत्तमः ॥ ४ ॥

न तेऽस्त्यशक्यं समरेषु कर्मणा

न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।

न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै

न वेद यस्तेऽस्त्रबलं बलं च ते ॥ ५ ॥

ममानुरूपं तपसो बलं च ते

पराक्रमश्चास्त्रबलं च सम्युगे ।

न त्वां समासाद्य रणावमर्दे

मनः श्रमं गच्छति निश्चितार्थम् ॥ ६ ॥

निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।

अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ ७ ॥

बलानि सुसमृद्धानि साश्वनागरथानि च ।

सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ।

न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ८ ॥

इदं हि दृष्ट्वा मतिमन्महद्बलं

कपेः प्रभावं च पराक्रमं च ।

त्वमात्मनश्चापि समीक्ष्य सारं

कुरुष्व वेगं स्वबलानुरूपम् ॥ ९ ॥

बलावमर्दस्त्वयि सन्निकृष्टे

यथागते शाम्यति शान्तशत्रौ ।

तथा समीक्ष्यात्मबलं परं च

समारभस्वास्त्रविदां वरिष्ठ ॥ १० ॥

न वीर सेना गणशोच्यवन्ति

न वज्रमादाय विशालसारम् ।

न मारुतस्यास्य गतेः प्रमाणं

न चाग्निकल्पः करणेन हन्तुम् ॥ ११ ॥

तमेवमर्थं प्रसमीक्ष्य सम्य-

-क्स्वकर्मसाम्याद्धि समाहितात्मा ।

स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं

व्रजाक्षतं कर्म समारभस्व ॥ १२ ॥

न खल्वियं मतिः श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम् ।

इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥ १३ ॥

नानाशस्त्रैश्च सङ्ग्रामे वैशारद्यमरिन्दम ।

अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ १४ ॥

ततः पितुस्तद्वचनं निशम्य

प्रदक्षिणं दक्षसुतप्रभावः ।

चकार भर्तारमदीनसत्त्वो

रणाय वीरः प्रतिपन्नबुद्धिः ॥ १५ ॥

ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः ।

यद्धोद्धतः कृतोत्साहः सङ्ग्रामं प्रत्यपद्यत ॥ १६ ॥

श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।

निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ १७ ॥

स पक्षिराजोपमतुल्यवेगै-

-र्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।

रथं समायुक्तमसङ्गवेगं

समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ १८ ॥

स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः ।

रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् ॥ १९ ॥

स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।

निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् ॥ २० ॥

सुमहच्चापमादाय शितशल्यांश्च सायकान् ।

हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ २१ ॥

तस्मिंस्ततः सम्यति जातहर्षे

रणाय निर्गच्छति बाणपाणौ ।

दिशश्च सर्वाः कलुषा बभूवु-

-र्मृगाश्च रौद्रा बहुधा विनेदुः ॥ २२ ॥

समागतास्तत्र तु नागयक्षा

महर्षयश्चक्रचराश्च सिद्धाः ।

नभः समावृत्य च पक्षिसङ्घा

विनेदुरुच्चैः परमप्रहृष्टाः ॥ २३ ॥

आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रिजितं कपिः ।

विननाद महानादं व्यवर्धत च वेगवान् ॥ २४ ॥

इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।

धनुर्विस्फारयामास तटिदूर्जितनिःस्वनम् ॥ २५ ॥

ततः समेतावतितीक्ष्णवेगौ

महाबलौ तौ रणनिर्विशङ्कौ ।

कपिश्च रक्षोऽधिपतेश्च पुत्रः

सुरासुरेन्द्राविव बद्धवैरौ ॥ २६ ॥

स तस्य वीरस्य महारथस्य

धनुष्मतः सम्यति सं‍मतस्य ।

शरप्रवेगं व्यहनत्प्रवृद्ध-

-श्चचार मार्गे पितुरप्रमेये ॥ २७ ॥

ततः शरानायततीक्ष्णशल्या-

-न्सुपत्रिणः काञ्चनचित्रपुङ्खान् ।

मुमोच वीरः परवीरहन्ता

सुनन्नतान्वज्रनिपातवेगान् ॥ २८ ॥

स तस्य तत्स्यन्दननिःस्वनं च

मृदङ्गभेरीपटहस्वनं च ।

विकृष्यमाणस्य च कार्मुकस्य

निशम्य घोषं पुनरुत्पपात ॥ २९ ॥

शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।

हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसङ्ग्रहम् ॥ ३० ॥

शराणामग्रतस्तस्य पुनः समभिवर्तत ।

प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ ३१ ॥

तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।

सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ ३२ ॥

हनूमतो वेद न राक्षसोन्तरं

न मारुतिस्तस्य महात्मनोन्तरम् ।

परस्परं निर्विषहौ बभूवतुः

समेत्य तौ देवसमानविक्रमौ ॥ ३३ ॥

ततस्तु लक्ष्ये स विहन्यमाने

शरेष्वमोघेषु च सम्पतत्सु ।

जगाम चिन्तां महतीं महात्मा

समाधिसम्योगसमाहितात्मा ॥ ३४ ॥

ततो मतिं राक्षसराजसूनु-

-श्चकार तस्मिन्हरिवीरमुख्ये ।

अवध्यतां तस्य कपेः समीक्ष्य

कथं निगच्छेदिति निग्रहार्थम् ॥ ३५ ॥

ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः ।

सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ॥ ३६ ॥

अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।

निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ॥ ३७ ॥

तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः ।

अभवन्निर्विचेष्टश्च पपात स महीतले ॥ ३८ ॥

ततोऽथ बुद्ध्वा स तदस्त्रबन्धं

प्रभोः प्रभावाद्विगतात्मवेगः ।

पितामहानुग्रहमात्मनश्च

विचिन्तयामास हरिप्रवीरः ॥ ३९ ॥

ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।

हनूमांश्चिन्तयामास वरदानं पितामहात् ॥ ४० ॥

न मेऽस्य बन्धस्य च शक्तिरस्ति

विमोक्षणे लोकगुरोः प्रभावात् ।

इत्येव मत्वा विहितोऽस्त्रबन्धो

मयात्मयोनेरनुवर्तितव्यः ॥ ४१ ॥

स वीर्यमस्त्रस्य कपिर्विचार्य

पितामहानुग्रहमात्मनश्च ।

विमोक्षशक्तिं परिचिन्तयित्वा

पितामहाज्ञामनुवर्तते स्म ॥ ४२ ॥

अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।

पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥ ४३ ॥

ग्रहणे चापि रक्षोभिर्महान्मे गुणदर्शनः ।

राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे ॥ ४४ ॥

स निश्चितार्थः परवीरहन्ता

समीक्ष्यकारी विनिवृत्तचेष्टः ।

परैः प्रसह्याभिगतैर्निगृह्य

ननाद तैस्तैः परिभर्त्स्यमानः ॥ ४५ ॥

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।

बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ ४६ ॥

स रोचयामास परैश्च बन्धं

प्रसह्य वीरैरभिनिग्रहं च ।

कौतूहलान्मां यदि राक्षसेन्द्रो

द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥ ४७ ॥

स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।

अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ ४८ ॥

अथेन्द्रजित्तु द्रुमचीरबद्धं

विचार्य वीरः कपिसत्तमं तम् ।

विमुक्तमस्त्रेण जगाम चिन्तां

नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥ ४९ ॥

अहो महत्कर्म कृतं निरर्थकं

न राक्षसैर्मन्त्रगतिर्विमृष्टा ।

पुनश्च नास्त्रे विहतेऽस्त्रमन्य-

-त्प्रवर्तते संशयिताः स्म सर्वे ॥ ५० ॥

अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यत ।

कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥ ५१ ॥

हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।

समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥ ५२ ॥

अथेन्द्रजित्तं प्रसमीक्ष्य मुक्त-

-मस्त्रेण बद्धं द्रुमचीरसूत्रैः ।

व्यदर्शयत्तत्र महाबलं तं

हरिप्रवीरं सगणाय राज्ञे ॥ ५३ ॥

तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।

राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५४ ॥

कोऽयं कस्य कुतो वाऽत्र किं कार्यं को व्यपाश्रयः ।

इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः ॥ ५५ ॥

हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।

राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन् ॥ ५६ ॥

अतीत्य मार्गं सहसा महात्मा

स तत्र रक्षोऽधिपपादमूले ।

ददर्श राज्ञः परिचारवृद्धा-

-न्गृहं महारत्नविभूषितं च ॥ ५७ ॥

स ददर्श महातेजा रावणः कपिसत्तमम् ।

रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ ५८ ॥

राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।

तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥ ५९ ॥

स रोषसंवर्तितताम्रदृष्टि-

-र्दशाननस्तं कपिमन्ववेक्ष्य ।

अथोपविष्टान्कुलशीलवृद्धा-

-न्समादिशत्तं प्रति मन्त्रिमुख्यान् ॥ ६० ॥

यथाक्रमं तैः स कपिर्विपृष्टः

कार्यार्थमर्थस्य च मूलमादौ ।

निवेदयामास हरीश्वरस्य

दूतः सकाशादहमागतोऽस्मि ॥ ६१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥

valmiki ramayan sundarakand adhyay 48