Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड द्विपञ्चाशः

॥ दूतवधनिवारणम् ॥

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।

आज्ञापयत्तस्य वधं रावणः क्रोधमूर्छितः ॥ १ ॥

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।

निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ २ ॥

तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।

विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥ ३ ॥

निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम् ।

उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ४ ॥

क्षमस्व रोषं त्यज राक्षसेन्द्र

प्रसीद मद्वाक्यमिदं शृणुष्व ।

वधं न कुर्वन्ति परावरज्ञा

दूतस्य सन्तो वसुधाधिपेन्द्राः ॥ ५ ॥

राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।

तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ ६ ॥

धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।

परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥ ७ ॥

गृह्यन्ते यदि रोषेण त्वादृशोपि विपश्चितः ।

ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥ ८ ॥

तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।

युक्तायुक्तं विनिश्चित्य दूते दण्डो विधीयताम् ॥ ९ ॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।

रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥ १० ॥

न पापानां वधे पापं विद्यते शत्रुसूदन ।

तस्मादेनं वधिष्यामि वानरं पापकारिणम् ॥ ११ ॥

अधर्ममूलं बहुदोषयुक्त-

-मनार्यजुष्टं वचनं निशम्य ।

उवाच वाक्यं परमार्थतत्त्वं

विभीषणो बुद्धिमतां वरिष्ठः ॥ १२ ॥

प्रसीद लङ्केश्वर राक्षसेन्द्र

धर्मार्थयुक्तं वचनं शृणुष्व ।

दूता न वध्याः समयेषु राज-

-न्सर्वेषु सर्वत्र वदन्ति सन्तः ॥ १३ ॥

असंशयं शत्रुरयं प्रवृद्धः

कृतं ह्यनेनाप्रियमप्रमेयम् ।

न दूतवध्यां प्रवदन्ति सन्तो

दूतस्य दृष्टा बहवो हि दण्डाः ॥ १४ ॥

वैरूप्यमङ्गेषु कशाभिघातो

मौण्ड्यं तथा लक्षणसन्निपातः ।

एतान्हि दूते प्रवदन्ति दण्डा-

-न्वधस्तु दूतस्य न नः श्रुतोऽपि ॥ १५ ॥

कथं च धर्मार्थविनीतबुद्धिः

परावरप्रत्ययनिश्चितार्थः ।

भवद्विधः कोपवशे हि तिष्ठे-

-त्कोपं नियच्छन्ति हि सत्त्ववन्तः ॥ १६ ॥

न धर्मवादे न च लोकवृत्ते

न शास्त्रबुद्धिग्रहणेषु चापि ।

विद्येत कश्चित्तव वीर तुल्य-

-स्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ १७ ॥

[* अधिकपाठः –

पराक्रमोत्साहमनस्विनां च

सुरासुराणामपि दुर्जयेन ।

त्वयाप्रमेयेन सुरेन्द्रसङ्घा

जिताश्च युद्धेष्वसकृन्नरेन्द्राः ॥ १८ ॥

इत्थं विधस्यामरदैत्यशत्रोः

शूरस्य वीरस्य तवाजितस्य ।

कुर्वन्ति मूढा मनसो व्यलीकं

प्राणैर्वियुक्ता ननु ये पुरा ते ॥ १९ ॥

*]

न चाप्यस्य कपेर्घाते कञ्चित्पश्याम्यहं गुणम् ।

तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥ २० ॥

साधुर्वा यदि वासाधुः परैरेष समर्पितः ।

ब्रुवन्परार्थं परवान्न दूतो वधमर्हति ॥ २१ ॥

अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम् ।

इह यः पुनरागच्छेत्परं पारं महोदधेः ॥ २२ ॥

तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय ।

भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥ २३ ॥

अस्मिन्विनष्टे न हि दूतमन्यं

पश्यामि यस्तौ नरराजपुत्रौ ।

युद्धाय युद्धप्रिय दुर्विनीता-

-वुद्योजयेद्दीर्घपथावरुद्धौ ॥ २४ ॥

अस्मिन्हते वानरयूथमुख्ये

सर्वापवादं प्रवदन्ति सर्वे ।

न हि प्रपश्यामि गुणान्यशो वा

लोकापवादो भवति प्रसिद्धः ॥ २५ ॥

पराक्रमोत्साहमनस्विनां च

सुरासुराणामपि दुर्जयेन ।

त्वया मनोनन्दन नैरृतानां

युद्धायतिर्नाशयितुं न युक्ता ॥ २६ ॥

हिताश्च शूराश्च समाहिताश्च

कुलेषु जाताश्च महागुणेषु ।

मनस्विनः शस्त्रभृतां वरिष्ठाः

कोट्यग्रतस्ते सुभृताश्च योधाः ॥ २७ ॥

तदेकदेशेन बलस्य ताव-

-त्केचित्तवादेशकृतोऽभियान्तु ।

तौ राजपुत्रौ विनिगृह्य मूढौ

परेषु ते भावयितुं प्रभावम् ॥ २८ ॥

निशाचराणामधिपोऽनुजस्य

विभीषणस्योत्तमवाक्यमिष्टम् ।

जग्राह बुद्ध्या सुरलोकशत्रु-

-र्महाबलो राक्षसराजमुख्यः ॥ २९ ॥

क्रोधं च जातं हृदये निरुध्य

विभीषणोक्तं वचनं सुपूज्य ।

उवाच रक्षोऽधिपतिर्महात्मा

विभीषणं शस्त्रभृतां वरिष्ठम् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥

valmiki ramayan sundarakand adhyay 52