Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड द्विचत्वारिंशः

॥ किङ्करनिषूदनम् ॥

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।

बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः ॥ १ ॥

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।

रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ २ ॥

ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।

तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ ३ ॥

स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः ।

चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ ४ ॥

ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।

राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५ ॥

कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः ।

कथं त्वया सहानेन संवादः कृत इत्युत ॥ ६ ॥

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।

संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ ७ ॥

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।

रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ ८ ॥

यूयमेवाभिजानीत योऽयं यद्वा करिष्यति ।

अहिरेव ह्यहेः पादान्विजानाति न संशयः ॥ ९ ॥

अहमप्यस्य भीताऽस्मि नैनं जानामि कोन्वयम् ।

वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ १० ॥

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।

स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ ११ ॥

रावणस्य समीपे तु राक्षस्यो विकृताननाः ।

विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ १२ ॥

अशोकवनिकामध्ये राजन्भीमवपुः कपिः ।

सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ १३ ॥

न च तं जानकी सीता हरिं हरिणलोचना ।

अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ १४ ॥

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।

प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ॥ १५ ॥

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।

नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ १६ ॥

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।

यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७ ॥

जानकीरक्षणार्थं वा श्रमाद्वा नोपलक्ष्यते ।

अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८ ॥

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।

प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ॥ १९ ॥

तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।

सीता सम्भाषिता येन तद्वनं च विनाशितम् ॥ २० ॥

मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।

कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ २१ ॥

राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।

हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ २२ ॥

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।

दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ २३ ॥

आत्मनः सदृशान् शूरान्किङ्करान्नाम राक्षसान् ।

व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ २४ ॥

तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।

निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ॥ २५ ॥

महोदरा महादंष्ट्रा घोररूपा महाबलाः ।

युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ॥ २६ ॥

ते कपिं तं समासाद्य तोरणस्थमवस्थितम् । [कपीन्द्रं]

अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ २७ ॥

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।

आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ २८ ॥

मुद्गरैः पट्‍टिशैः शूलैः प्रासतोमरशक्तिभिः ।

परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ २९ ॥

हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः ।

क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ॥ ३० ॥

स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः ।

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ३१ ॥

तस्यास्फोटितशब्देन महता सानुनादिना ।

पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ ३२ ॥

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ३३ ॥

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।

हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ ३४ ॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ ३५ ॥

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ ३६ ॥

तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः ।

ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ ३७ ॥

स्वामिसन्देशनिःशङ्कास्ततस्ते राक्षसाः कपिम् ।

चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ ३८ ॥

स तैः परिवृतः शूरैः सर्वतः स महाबलः ।

आससादायसं भीमं परिघं तोरणाश्रितम् ॥ ३९ ॥

स तं परिघमादाय जघान च निशाचरान् ।

स पन्नगमिवादाय स्फुरन्तं विनतासुतः ॥ ४० ॥

विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।

[* सूदयामास वज्रेण दैत्यानिव सहस्रदृक् । *]

स हत्वा राक्षसान्वीरान्किङ्करान्मारुतात्मजः ॥ ४१ ॥

युद्धकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।

निहतान्किङ्करान्सर्वान्रावणाय न्यवेदयन् ॥ ४२ ॥

स राक्षसानां निहतं महद्बलं

निशम्य राजा परिवृत्तलोचनः ।

समादिदेशाप्रतिमं पराक्रमे

प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ ४३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥

valmiki ramayan sundarakand adhyay 42