Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड सप्तत्रिंशः

॥ सीताप्रत्यानयनानौचित्यम् ॥

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।

हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥ १ ॥

अमृतं विषसंसृष्टं त्वया वानर भाषितम् ।

यच्च नान्यमना रामो यच्च शोकपरायणः ॥ २ ॥

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।

रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ ३ ॥

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ।

सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ ४ ॥

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति ।

प्लवमानः परिश्रान्तो हतनौः सागरे यथा ॥ ५ ॥

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।

लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ ६ ॥

स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।

अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ ७ ॥

वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।

रावणेन नृशंसेन समयो यः कृतो मम ॥ ८ ॥

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।

अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् ॥ ९ ॥

मम प्रतिप्रदानं हि रावणस्य न रोचते ।

रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ॥ १० ॥

ज्येष्ठा कन्यानला नाम विभीषणसुता कपे ।

तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ॥ ११ ॥

[* अधिकपाठः –

अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुङ्गवः ।

द्युतिमान् शीलवान्वृद्धो रावणस्य सुसं‍मतः ॥

रामक्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।

न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ॥

*]

आसंशेयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।

अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ १२ ॥

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।

विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥ १३ ॥

चतुर्दश सहस्राणि राक्षसानां जघान यः ।

जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ १४ ॥

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।

अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा ॥ १५ ॥

शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।

शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ १६ ॥

इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम् ।

अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ॥ १७ ॥

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।

चमूं प्रकर्षन्महतीं हर्यृक्षगणसं‍कुलाम् ॥ १८ ॥

अथवा मोचयिष्यामि त्वामद्यैव वरानने ।

अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ॥ १९ ॥

त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।

शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ॥ २० ॥

अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ।

प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ॥ २१ ॥

द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् ।

व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥ २२ ॥

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।

पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ॥ २३ ॥

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।

योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥ २४ ॥

कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।

मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवौ ॥ २५ ॥

न हि मे सम्प्रयातस्य त्वामितो नयतोङ्गने ।

अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ॥ २६ ॥

यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् ।

यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥ २७ ॥

मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् ।

हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ २८ ॥

हनुमन्दूरमध्वानं कथं मां वोढुमिच्छसि ।

तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ २९ ॥

कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।

सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥ ३० ॥

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।

चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ ३१ ॥

न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा ।

इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।

दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ॥ ३३ ॥

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।

ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३४ ॥

मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।

अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ ३५ ॥

हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।

वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ ३६ ॥

सपर्वतवनोद्देशां साट्‍टप्राकारतोरणाम् ।

लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥ ३७ ॥

तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।

विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ ३८ ॥

तं दृष्ट्वाचलसङ्काशमुवाच जनकात्मजा । [भीम]

पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ ३९ ॥

तव सत्त्वं बलं चैव विजानामि महाकपे ।

वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ॥ ४० ॥

प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।

उदधेरप्रमेयस्य पारं वानरपुङ्गव ॥ ४१ ॥

जानामि गमने शक्तिं नयने चापि ते मम ।

अवश्यं सम्प्रधार्याशु कार्यसिद्धिर्महात्मनः ॥ ४२ ॥

अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयानघ ।

वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ ४३ ॥

अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।

प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः ॥ ४४ ॥

पतिता सागरे चाहं तिमिनक्रझषाकुले ।

भवेयमाशु विवशा यादसामन्नमुत्तमम् ॥ ४५ ॥

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।

कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ॥ ४६ ॥

ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।

अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ ४७ ॥

तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।

भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ ४८ ॥

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।

कथं शक्ष्यसि सम्यातुं मां चैव परिरक्षितुम् ॥ ४९ ॥

युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।

प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम ॥ ५० ॥

अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।

कथञ्चित्साम्पराये त्वां जयेयुः कपिसत्तम ॥ ५१ ॥

अथवा युध्यमानस्य पतेयं विमुखस्य ते ।

पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥ ५२ ॥

मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा ।

अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ ५३ ॥

अहं वाऽपि विपद्येयं रक्षोभिरभितर्जिता ।

त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ ५४ ॥

कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् ।

राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥ ५५ ॥

अथवादाय रक्षांसि न्यसेयुः संवृते हि माम् ।

यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ॥ ५६ ॥

आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः ।

त्वया हि सह रामस्य महानागमने गुणः ॥ ५७ ॥

मयि जीवितमायत्तं राघवस्य महात्मनः ।

भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ ५८ ॥

तौ निराशौ मदर्थं तु शोकसं‍तापकर्शितौ ।

सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम् ॥ ५९ ॥

भर्तृभक्तिं पुरस्कृत्य रामादन्यस्य वानर ।

न स्पृशामि शरीरं तु पुंसो वानरपुङ्गव ॥ ६० ॥

यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।

अनीशा किं करिष्यामि विनाथा विवशा सती ॥ ६१ ॥

यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।

मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६२ ॥

श्रुता हि दृष्टाश्च मया पराक्रमा

महात्मनस्तस्य रणावमर्दिनः ।

न देवगन्धर्वभुजङ्गराक्षसा

भवन्ति रामेण समा हि सं‍युगे ॥ ६३ ॥

समीक्ष्य तं सम्यति चित्रकार्मुकं

महाबलं वासवतुल्यविक्रमम् ।

सलक्ष्मणं को विषहेत राघवं

हुताशनं दीप्तमिवानिलेरितम् ॥ ६४ ॥

सलक्ष्मणं राघवमाजिमर्दनं

दिशागजं मत्तमिव व्यवस्थितम् ।

सहेत को वानरमुख्य सम्युगे

युगान्तसूर्यप्रतिमं शरार्चिषम् ॥ ६५ ॥

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं

सयूथपं क्षिप्रमिहोपपादय ।

चिराय रामं प्रति शोककर्शितां

कुरुष्व मां वानरमुख्य हर्षिताम् ॥ ६६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥

valmiki ramayan sundarakand adhyay 37