Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड सप्तपञ्चाशः

॥ हनूमत्प्रत्यागमनम् ॥

[* आप्लुत्य च महावेगः पक्षवानिव पर्वतः । *]

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।

तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ॥ १ ॥

पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।

ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ॥ २ ॥

वातसङ्घातजातोर्मि चन्द्रांशुशिशिराम्बुमत् ।

भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥ ३ ॥

हनुमान्मारुतगतिर्महानौरिव सागरम् ।

अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥ ४ ॥

ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।

हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ॥ ५ ॥

मारुतस्यात्मजः श्रीमान्कपिर्व्योमचरो महान् ।

हनुमान्मेघजालानि विकर्षन्निव गच्छति ॥ ६ ॥

पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।

हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ ७ ॥

प्रविशन्नभ्रजालानि निष्क्रामंश्च पुनः पुनः ।

प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८ ॥

विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।

दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायतेम्बरे ॥ ९ ॥

तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।

दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः ॥ १० ॥

नदन्नादेन महता मेघस्वनमहास्वनः ।

प्रवरान्राक्षसान्हत्वा नाम विश्राव्य चात्मनः ॥ ११ ॥

आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।

अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ १२ ॥

आजगाम महातेजाः पुनर्मध्येन सागरम् ।

पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥ १३ ॥

ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ।

स किञ्चिदनुसम्प्राप्तः समालोक्य महागिरिम् ॥ १४ ॥

महेन्द्रं मेघसङ्काशं ननाद हरिपुङ्गवः ।

स पूरयामास कपिर्दिशो दश समन्ततः ॥ १५ ॥

नदन्नादेन महता मेघस्वनमहास्वनः ।

स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ॥ १६ ॥

ननाद हरिशार्दूलो लाङ्गूलं चाप्यकम्पयत् ।

तस्य नानद्यमानस्य सुपर्णचरिते पथि ॥ १७ ॥

फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।

ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥ १८ ॥

पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ।

महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ॥ १९ ॥

शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।

ते दीनवदनाः सर्वे शुश्रुवुः काननौकसः ॥ २० ॥

वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।

निशम्य नदतो नादं वानरास्ते समन्ततः ॥ २१ ॥

बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ।

जाम्बवांस्तु हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ॥ २२ ॥

उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् ।

सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः ॥ २३ ॥

न ह्यस्याकृतकार्यस्य नाद एवं विधो भवेत् ।

तस्य बाहूरुवेगं च निनादं च महात्मनः ॥ २४ ॥

निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।

ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ॥ २५ ॥

प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।

ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः ॥ २६ ॥ [सुविष्ठिताः]

वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।

गिरिगह्वरसंलीनो यथा गर्जति मारुतः ॥ २७ ॥

एवं जगर्ज बलवान्हनूमान्मारुतात्मजः ।

तमभ्रघनसङ्काशमापतन्तं महाकपिम् ॥ २८ ॥

दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ।

ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ॥ २९ ॥

निपपात महेन्द्रस्य शिखरे पादपाकुले ।

हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे ॥ ३० ॥

छिन्नपक्ष इवाकाशात्पपात धरणीधरः ।

ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ॥ ३१ ॥

हनुमन्तं महात्मानं परिवार्योपतस्थिरे ।

परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ ३२ ॥

प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।

उपायनानि चादाय मूलानि च फलानि च ॥ ३३ ॥

प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् ।

हनूमांस्तु गुरून्वृद्धान् जाम्बवत्प्रमुखांस्तदा ॥ ३४ ॥

कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ।

स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ॥ ३५ ॥

दृष्टा सीतेति विक्रान्तः सङ्क्षेपेण न्यवेदयत् ।

निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ॥ ३६ ॥

रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।

हनुमानब्रवीद्दृष्टस्तदा तान्वानरर्षभान् ॥ ३७ ॥

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।

रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ॥ ३८ ॥

एकवेणीधरा दीना रामदर्शनलालसा । [बाला]

उपवासपरिश्रान्ता जटिला मलिना कृशा ॥ ३९ ॥

ततो दृष्टेति वचनं महार्थममृतोपमम् ।

निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥ ४० ॥

क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।

चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ॥ ४१ ॥

केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।

अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः ॥ ४२ ॥

अपरे च हनूमन्तं वानरा वारणोपमम् ।

आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ॥ ४३ ॥

उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।

सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥ ४४ ॥

सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते ।

यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥ ४५ ॥

[* अधिकश्लोकं –

जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम ।

त्वत्प्रसादात्समेष्यामः सिद्धार्था राघवेण ह ॥

*]

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।

दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥ ४६ ॥

दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।

ततोङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥ ४७ ॥

परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।

श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥ ४८ ॥

दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।

तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ॥ ४९ ॥

तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः ।

उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ५० ॥

हनूमता कीर्तिमता यशस्विना

तथाङ्गदेनाङ्गदबद्धबाहुना ।

मुदा तदाध्यासितमुन्नतं मह-

-न्महीधराग्रं ज्वलितं श्रियाऽभवत् ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

valmiki ramayan sundarakand adhyay 57