Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड पञ्चचत्वारिंशः

॥ अमात्यपुत्रवधः ॥

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणां सुताः ।

निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः ॥ १ ॥

महाबलपरीवारा धनुष्मन्तो महाबलाः ।

कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ २ ॥

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।

तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ ३ ॥

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।

विस्फारयन्तः संहृष्टास्तटित्वन्त इवाम्बुदाः ॥ ४ ॥

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान्हतान् ।

बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥ ५ ॥

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।

अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ ६ ॥

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।

वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृताम्बुदाः ॥ ७ ॥

अवकीर्णस्ततस्ताभिर्हनुमाञ्शरवृष्टिभिः ।

अभवत्संवृताकारः शैलराडिव वृष्टिभिः ॥ ८ ॥

स शरान्मोघयामास तेषामाशुचरः कपिः ।

रथवेगं च वीराणां विचरन्विमलेऽम्बरे ॥ ९ ॥

स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।

धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ १० ॥

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।

चकार हनुमान्वेगं तेषु रक्षःसु वीर्यवान् ॥ ११ ॥

तलेनाभ्यहनत्कांश्चित्पद्भ्यां कांश्चित्परन्तपः । [पादैः]

मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत् ॥ १२ ॥

प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः ।

केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ १३ ॥

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।

तत्सैन्यमगमत्सर्वं दिशो दश भयार्दितम् ॥ १४ ॥

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।

भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः ॥ १५ ॥

स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि ।

विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ॥ १६ ॥

स तान्प्रवृद्धान्विनिहत्य राक्षसा-

-न्महाबलश्चण्डपराक्रमः कपिः ।

युयुत्सुरन्यैः पुनरेव राक्षसै-

-स्तदेव वीरोभिजगाम तोरणम् ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

valmiki ramayan sundarakand adhyay 45