Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड षट्त्रिंशः

॥ अङ्गुलीयकप्रदानम् ॥

भूय एव महातेजा हनुमान्मारुतात्मजः ।

अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ १ ॥

वानरोऽहं महाभागे दूतो रामस्य धीमतः ।

रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ २ ॥

प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।

समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ ३ ॥

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।

भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत् ॥ ४ ॥

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।

अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ ५ ॥

ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।

परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥ ६ ॥

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।

येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ७ ॥

शतयोजनविस्तीर्णः सागरो मकरालयः ।

विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥ ८ ॥

न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।

यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः ॥ ९ ॥

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।

यद्यसि प्रेषितस्तेन रामेण विदितात्मना ॥ १० ॥

प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् ।

पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ ११ ॥

दिष्ट्या स कुशली रामो धर्मात्मा सत्यसङ्गरः ।

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ १२ ॥

कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् ।

महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥ १३ ॥

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।

ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥ १४ ॥

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।

उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ १५ ॥

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।

कच्चित्पुरुषकार्याणि कुरुते नृपतेः सुतः ॥ १६ ॥

द्विविधं त्रिविधोपायमुपायमपि सेवते ।

विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परन्तपः ॥ १७ ॥

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।

कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥ १८ ॥

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।

कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ॥ १९ ॥

कच्चिन्न विगतस्नेहः विवासान्मयि राघवः । [प्रसादात्]

कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ॥ २० ॥

सुखानामुचितो नित्यमसुखानामनूचितः ।

दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ २१ ॥

कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च ।

अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ॥ २२ ॥

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।

कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ २३ ॥

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।

ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ २४ ॥

वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति ।

मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥ २५ ॥

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।

अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥ २६ ॥

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।

द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ २७ ॥

कच्चिन्न तद्धेमसमानवर्णं

तस्याननं पद्मसमानगन्धि ।

मया विना शुष्यति शोकदीनं

जलक्षये पद्ममिवातपेन ॥ २८ ॥

धर्मापदेशात्त्यजतश्च राज्यं

मां चाप्यरण्यं नयतः पदातिम् ।

नासीद्व्यथा यस्य न भीर्न शोकः

कच्चिच्च धैर्यं हृदये करोति ॥ २९ ॥

न चास्य माता न पिता च नान्यः

स्नेहाद्विशिष्टोऽस्ति मया समो वा ।

तावत्त्वहं दूत जिजीविषेयं

यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥ ३० ॥

इतीव देवी वचनं महार्थं

तं वानरेन्द्रं मधुरार्थमुक्त्वा ।

श्रोतुं पुनस्तस्य वचोऽभिरामं

रामार्थयुक्तं विरराम रामा ॥ ३१ ॥

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।

शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ३२ ॥

न त्वामिहस्थां जानीते रामः कमललोचने ।

तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ॥ ३३ ॥

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।

चमूं प्रकर्षन्महतीं हर्यृक्षगणसं‍कुलाम् ॥ ३४ ॥

विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् ।

करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ ३५ ॥

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः ।

स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ३६ ॥

तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।

न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ३७ ॥

मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।

दर्दुरेण च ते देवि शपे मूलफलेन च ॥ ३८ ॥

यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।

मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ ३९ ॥

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ ।

शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥ ४० ॥

न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।

वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ ४१ ॥

नैव दं‍शान्न मशकान्न कीटान्न सरीसृपान् ।

राघवोऽपनयेद्गात्रात्त्वद्गतेनान्तरात्मना ॥ ४२ ॥

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।

नान्यच्चिन्तयते किञ्चित्स तु कामवशं गतः ॥ ४३ ॥

अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः ।

सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥ ४४ ॥

दृष्ट्वा फलं वा पुष्पं वा यद्वान्यत्सुमनोहरम् ।

बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ४५ ॥

स देवि नित्यं परितप्यमान-

-स्त्वामेव सीतेत्यभिभाषमाणः ।

धृढव्रतो राजसुतो महात्मा

तवैव लाभाय कृतप्रयत्नः ॥ ४६ ॥

सा रामसं‍कीर्तनवीतशोका

रामस्य शोकेन समानशोका ।

शरन्मुखे साम्बुदशेषचन्द्रा

निशेव वैदेहसुता बभूव ॥ ४७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥

valmiki ramayan sundarakand adhyay 36