Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड अष्टमः

॥ पुष्पकानुवर्णनम् ॥

स तस्य मध्ये भवनस्य संस्थितं

महद्विमानं बहुरत्नचित्रितम् । [मणिवज्र]

प्रतप्तजाम्बूनदजालकृत्रिमं

ददर्श वीरः पवनात्मजः कपिः ॥ १ ॥

तदप्रमेयाप्रतिकारकृत्रिमं

कृतं स्वयं साध्विति विश्वकर्मणा ।

दिवं गतं वायुपथे प्रतिष्ठितं

व्यराजतादित्यपथस्य लक्ष्मवत् ॥ २ ॥

न तत्र किञ्चिन्न कृतं प्रयत्नतो

न तत्र किञ्चिन्न महर्हरत्नवत् ।

न ते विशेषा नियताः सुरेष्वपि

न तत्र किञ्चिन्न महाविशेषवत् ॥ ३ ॥

तपःसमाधानपराक्रमार्जितं

मनःसमाधानविचारचारिणम् ।

अनेकसंस्थानविशेषनिर्मितं

ततस्ततस्तुल्यविशेषदर्शनम् ॥ ४ ॥

मनः समाधाय तु शीघ्रगामिनं

दुरावरं मारुततुल्यगामिनम् ।

महात्मनां पुण्यकृतां महर्धिनां

यशस्विनामग्र्यमुदामिवालयम् ॥ ५ ॥

विशेषमालम्ब्य विशेषसंस्थितं

विचित्रकूटं बहुकूटमण्डितम् ।

मनोभिरामं शरदिन्दुनिर्मलं

विचित्रकूटं शिखरं गिरेर्यथा ॥ ६ ॥

वहन्ति यं कुण्डलशोभितानना

महाशना व्योमचरा निशाचराः ।

विवृत्तविध्वस्तविशाललोचना

महाजवा भूतगणाः सहस्रशः ॥ ७ ॥

वसन्तपुष्पोत्करचारुदर्शनं

वसन्तमासादपि कान्तदर्शनम् ।

स पुष्पकं तत्र विमानमुत्तमं

ददर्श तद्वानरवीरसत्तमः ॥ ८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥ ८ ॥

valmiki ramayan sundarakand adhyay 8