Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड एकोनत्रिंशः

॥ शुभनिमित्तानि ॥

तथागतां तां व्यथितामनिन्दितां

व्यपेतहर्षां परिदीनमानसाम् ।

शुभां निमित्तानि शुभानि भेजिरे

नरं श्रिया जुष्टमिवोपजीविनः ॥ १ ॥

तस्याः शुभं वाममरालपक्ष्म-

-राजीवृतं कृष्णविशालशुक्लम् ।

प्रास्पन्दतैकं नयनं सुकेश्या

मीनाहतं पद्ममिवाभिताम्रम् ॥ २ ॥

भुजश्च चार्वञ्चितपीनवृत्तः

परार्ध्यकालागरुचन्दनार्हः ।

अनुत्तमेनाध्युषितः प्रियेण

चिरेण वामः समवेपताशु ॥ ३ ॥

गजेन्द्रहस्तप्रतिमश्च पीन-

-स्तयोर्द्वयोः संहतयोः सुजातः ।

प्रस्पन्दमानः पुनरूरुरस्या

रामं पुरस्तात्स्थितमाचचक्षे ॥ ४ ॥

शुभं पुनर्हेमसमानवर्ण-

-मीषद्रजोध्वस्तमिवामलाक्ष्याः ।

वासः स्थितायाः शिखराग्रदत्याः

किञ्चित्परिस्रंसत चारुगात्र्याः ॥ ५ ॥

एतैर्निमित्तैरपरैश्च सुभ्रूः

सम्बोधिता प्रागपि साधु सिद्धैः ।

वातातपक्लान्तमिव प्रनष्टं

वर्षेण बीजं प्रतिसञ्जहर्ष ॥ ६ ॥

तस्याः पुनर्बिम्बफलाधरोष्ठं

स्वक्षिभ्रुकेशान्तमरालपक्ष्म ।

वक्त्रं बभासे सितशुक्लदंष्ट्रं

राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ ७ ॥

सा वीतशोका व्यपनीततन्द्री

शान्तज्वरा हर्षविवृद्धसत्त्वा ।

अशोभतार्या वदनेन शुक्ले

शीतांशुना रात्रिरिवोदितेन ॥ ८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥

valmiki ramayan sundarakand adhyay 29