Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड चतुस्त्रिंशः

॥ रावणशङ्कानिवारणम् ॥

तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ।

दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥ १ ॥

अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।

वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ २ ॥

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।

स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ ३ ॥

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ।

कृतवान् शोकसन्तप्तः शिरसा तेऽभिवादनम् ॥ ४ ॥

सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।

प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ॥ ५ ॥

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।

एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ६ ॥

तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता ।

परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ७ ॥

तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ।

सीतायाः शोकदीनायाः समीपमुपचक्रमे ॥ ८ ॥

यथा यथा समीपं स हनुमानुपसर्पति ।

तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ९ ॥

अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे ।

रूपान्तरमुपागम्य स एवायं हि रावणः ॥ १० ॥

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता ।

तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ११ ॥

हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ॥ १२ ॥

सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ॥ १३ ॥

अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ।

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ॥ १४ ॥

उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ।

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ॥ १५ ॥

जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ।

उपवासकृशां दीनां कामरूप निशाचर ॥ १६ ॥

सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ।

अथवा नैतदेवं हि यन्मया परिशङ्कितम् ॥ १७ ॥

मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।

यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ॥ १८ ॥

पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।

गुणान्रामस्य कथय प्रियस्य मम वानर ॥ १९ ॥

चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।

अहो स्वप्नस्य सुखता याहमेवं चिराहृता ॥ २० ॥

प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ॥ २१ ॥

पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ।

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ २२ ॥

न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।

किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् ॥ २३ ॥

उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।

अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः ॥ २४ ॥

सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम् ।

इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् ॥ २५ ॥

रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ॥ २६ ॥

न प्रतिव्याजहाराथ वानरं जनकात्मजा ।

सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः ॥ २७ ॥

श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ।

आदित्य इव तेजस्वी लोककान्तः शशी यथा ॥ २८ ॥

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥ २९ ॥

सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ।

रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् ॥ ३० ॥

स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।

बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ ३१ ॥

अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।

शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् ॥ ३२ ॥

न चिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।

रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ ३३ ॥

तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।

त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ॥ ३४ ॥

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।

अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ॥ ३५ ॥

रामस्य च सखा देवि सुग्रीवो नाम वानरः ।

राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ ३६ ॥

नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।

दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ ३७ ॥

न चिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।

मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ ३८ ॥

अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।

प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥ ३९ ॥

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।

त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ ४० ॥

नाहमस्मि तथा देवि यथा मामवगच्छसि ।

विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥

valmiki ramayan sundarakand adhyay 34