Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड तृतीयः

॥ लङ्काधिदेवताविजयः ॥

स लम्बशिखरे लम्बे लम्बतोयदसन्निभे ।

सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।

रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।

सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ३ ॥

सुपुष्टबलसङ्घुष्टां यथैव विटपावतीम् ।

चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ ४ ॥

भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।

तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥

मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् ।

शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।

आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।

जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ॥ ८ ॥

वज्रस्फटिकमुक्ताभिर्मणिकुट्‍टिमभूषितैः ।

तप्तहाटकनिर्यूहैः राजतामलपाण्डुरैः ॥ ९ ॥

वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।

चारु सञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥

क्रौञ्चबर्हिणसङ्घुष्टैः राजहंसनिषेवितैः ।

तूर्याभरण निर्घोषैः सर्वतः प्रतिनादिताम् ॥ ११ ॥

वस्वोकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।

खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः ॥ १२ ॥ [कामां]

तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् ।

अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ १३ ॥

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।

रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ १४ ॥

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।

प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।

ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ ॥

समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् ।

लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥

तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् ।

यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥

तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः ।

नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ १९ ॥

अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।

नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० ॥

सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ।

स्वयमेवोत्थिता तत्र विकृतानन दर्शना ॥ २१ ॥

पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।

मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२ ॥

कस्त्वं केन च कार्येण इह प्राप्तो वनालय ।

कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥

न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ।

रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥

अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।

कथयिष्यामि ते तत्त्वं यन्मान्त्वं परिपृच्छसि ॥ २५ ॥

का त्वं विरूपनयना पुरद्वारेव तिष्ठसि ।

किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ २६ ॥

हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।

उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७ ॥

अहं राक्षसराजस्य रावणस्य महात्मनः ।

आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८ ॥

न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।

अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ २९ ॥

अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम ।

सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ ३० ॥

लङ्काया वचनं श्रुत्वा हनूमान् मारुतात्मजः ।

यत्नवान्स हरिश्रेष्ठः स्थितः शैल इवापरः ॥ ३१ ॥

स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ।

आबभाषेऽथ मेधावी सत्त्ववान्प्लवगर्षभः ॥ ३२ ॥

द्रक्ष्यामि नगरीं लङ्कां साट्‍टप्राकारतोरणाम् ।

इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥

वनान्युपवनानीह लङ्कायाः काननानि च ।

सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥

तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।

भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५ ॥

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिता ।

न शक्यमद्य ते द्रष्टुं पुरीयं वनराधम ॥ ३६ ॥

ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।

दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७ ॥

ततः कृत्वा महानादं सा वै लङ्का भयावहम् ।

तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ३८ ॥

ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ।

ननाद सुमहानादं वीर्यवान्पवनात्मजः ॥ ३९ ॥

ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः ।

मुष्टिनाभिजघानैनां हनूमान् क्रोधमूर्छितः ॥ ४० ॥

स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः ।

सा तु तेन प्रहारेण विह्वलाङ्गी नीशाचरी ॥ ४१ ॥

पपात सहसा भूमौ विकृताननदर्शना ।

ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ ४२ ॥

कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ।

ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ॥ ४३ ॥

उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम् ।

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ ४४ ॥

समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ।

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥ ४५ ॥

निर्जिताहं त्वया वीर विक्रमेण महाबल ।

इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर ॥ ४६ ॥

स्वयम्भुवा पुरा दत्तं वरदानं यथा मम ।

यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ ४७ ॥

तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ।

स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ ४८ ॥

स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ ४९ ॥

रक्षसां चैव सर्वेषां विनाशः समुपागतः ।

तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।

विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५० ॥

प्रविश्य शापोपहतां हरीश्वर

शुभां पुरीं राक्षसमुख्यपालिताम् ।

यदृच्छया त्वं जनकात्मजां सतीं

विमार्ग सर्वत्र गतो यथासुखम् ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतयः सर्गः ॥ ३ ॥

valmiki ramayan sundarakand adhyay 3