Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड सप्तचत्वारिंशः

॥ अक्षकुमारवधः ॥

सेनापतीन्पञ्च स तु प्रमापिता-

-न्हनूमता सानुचरान्सवाहनान् ।

समीक्ष्य राजा समरोद्धतोन्मुखं

कुमारमक्षं प्रसमैक्षताग्रतः ॥ १ ॥

स तस्य दृष्ट्यर्पणसम्प्रचोदितः

प्रतापवान्काञ्चनचित्रकार्मुकः ।

समुत्पपाताथ सदस्युदीरितो

द्विजातिमुख्यैर्हविषेव पावकः ॥ २ ॥

ततो महद्बालदिवाकरप्रभं

प्रतप्तजाम्बूनदजालसन्ततम् ।

रथं समास्थाय ययौ स वीर्यवा-

-न्महाहरिं तं प्रति नैरृतर्षभः ॥ ३ ॥

ततस्तपः सङ्ग्रहसञ्चयार्जितं

प्रतप्तजाम्बूनदजालशोभितम् ।

पताकिनं रत्नविभूषितध्वजं

मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४ ॥

सुरासुराधृष्यमसङ्गचारिणं

रविप्रभं व्योमचरं समाहितम् ।

सतूणमष्टासिनिबद्धबन्धुरं

यथाक्रमावेशितशक्तितोमरम् ॥ ५ ॥

विराजमानं प्रतिपूर्णवस्तुना

सहेमदाम्ना शशिसूर्यवर्चसा ।

दिवाकराभं रथमास्थितस्ततः

स निर्जगामामरतुल्यविक्रमः ॥ ६ ॥

स पूरयन्खं च महीं च साचलां

तुरङ्गमातङ्गमहारथस्वनैः ।

बलैः समेतैः स हि तोरणस्थितं

समर्थमासीनमुपागमत्कपिम् ॥ ७ ॥

स तं समासाद्य हरिं हरीक्षणो

युगान्तकालाग्निमिव प्रजाक्षये ।

अवस्थितं विस्मितजातसम्भ्रमः

समैक्षताक्षो बहुमानचक्षुषा ॥ ८ ॥

स तस्य वेगं च कपेर्महात्मनः

पराक्रमं चारिषु पार्थिवात्मजः ।

विचारयन्स्वं च बलं महाबलो

हिमक्षये सूर्य इवाभिवर्धते ॥ ९ ॥

स जातमन्युः प्रसमीक्ष्य विक्रमं

स्थिरं स्थितः सम्यति दुर्निवारणम् ।

समाहितात्मा हनुमन्तमाहवे

प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १० ॥

ततः कपिं तं प्रसमीक्ष्य गर्वितं

जितश्रमं शत्रुपराजयोर्जितम् ।

अवैक्षताक्षः समुदीर्णमानसः

स बाणपाणिः प्रगृहीतकार्मुकः ॥ ११ ॥

स हेमनिष्काङ्गदचारुकुण्डलः

समाससादाशुपराक्रमः कपिम् ।

तयोर्बभूवाप्रतिमः समागमः

सुरासुराणामपि सम्भ्रमप्रदः ॥ १२ ॥

ररास भूमिर्न तताप भानुमा-

-न्ववौ न वायुः प्रचचाल चाचलः ।

कपेः कुमारस्य च वीक्ष्य सम्युगं

ननाद च द्यौरुदधिश्च चुक्षुभे ॥ १३ ॥

ततः स वीरः सुमुखान्पतत्रिणः

सुवर्णपुङ्खान्सविषानिवोरगान् ।

समाधिसम्योगविमोक्षतत्त्ववि-

-च्छरानथ त्रीन्कपिमूर्ध्न्यपातयत् ॥ १४ ॥

स तैः शरैर्मूर्ध्नि समं निपातितैः

क्षरन्नसृग्दिग्धविवृत्तलोचनः ।

नवोदितादित्यनिभः शरांशुमा-

-न्व्यरोचतादित्य इवांशुमालिकः ॥ १५ ॥

ततः स पिङ्गाधिपमन्त्रिसत्तमः

समीक्ष्य तं राजवरात्मजं रणे ।

उदग्रचित्रायुधचित्रकार्मुकं

जहर्ष चापूर्यत चाहवोन्मुखः ॥ १६ ॥

स मन्दराग्रस्थ इवांशुमालिको

विवृद्धकोपो बलवीर्यसम्युतः ।

कुमारमक्षं सबलं सवाहनं

ददाह नेत्राग्निमरीचिभिस्तदा ॥ १७ ॥

ततः स बाणासनचित्रकार्मुकः

शरप्रवर्षो युधि राक्षसाम्बुदः ।

शरान्मुमोचाशु हरीश्वराचले

बलाहको वृष्टिमिवाचलोत्तमे ॥ १८ ॥

ततः कपिस्तं रणचण्डविक्रमं

विवृद्धतेजोबलवीर्यसम्युतम् ।

कुमारमक्षं प्रसमीक्ष्य सम्युगे

ननाद हर्षाद्घनतुल्यविक्रमः ॥ १९ ॥

स बालभावाद्युधि वीर्यदर्पितः

प्रवृद्धमन्युः क्षतजोपमेक्षणः ।

समाससादाप्रतिमं कपिं रणे

गजो महाकूपमिवावृतं तृणैः ॥ २० ॥

स तेन बाणैः प्रसभं निपातितै-

-श्चकार नादं घननादनिःस्वनः ।

समुत्पपाताशु नभः स मारुति-

-र्भुजोरुविक्षेपणघोरदर्शनः ॥ २१ ॥

समुत्पतन्तं समभिद्रवद्बली

स राक्षसानां प्रवरः प्रतापवान् ।

रथी रथिश्रेष्ठतमः किरन् शरैः

पयोधरः शैलमिवाश्मवृष्टिभिः ॥ २२ ॥

स तान् शरांस्तस्य हरिर्विमोक्षयन्

चचार वीरः पथि वायुसेविते ।

शरान्तरे मारुतवद्विनिष्पतन्

मनोजवः सम्यति चण्डविक्रमः ॥ २३ ॥

तमात्तबाणासनमाहवोन्मुखं

खमास्तृणन्तं विशिखैः शरोत्तमैः ।

अवैक्षताक्षं बहुमानचक्षुषा

जगाम चिन्तां च स मारुतात्मजः ॥ २४ ॥

ततः शरैर्भिन्नभुजान्तरः कपिः

कुमारवीर्येण महात्मना नदन् ।

महाभुजः कर्मविशेषतत्त्ववि-

-द्विचिन्तयामास रणे पराक्रमम् ॥ २५ ॥

अबालवद्बालदिवाकरप्रभः

करोत्ययं कर्म महन्महाबलः ।

न चास्य सर्वाहवकर्मशोभिनः

प्रमापणे मे मतिरत्र जायते ॥ २६ ॥

अयं महात्मा च महांश्च वीर्यतः

समाहितश्चातिसहश्च सम्युगे ।

असंशयं कर्मगुणोदयादयं

सनागयक्षैर्मुनिभिश्च पूजितः ॥ २७ ॥

पराक्रमोत्साहविवृद्धमानसः

समीक्षते मां प्रमुखागतः स्थितः ।

पराक्रमो ह्यस्य मनांसि कम्पयेत्

सुरासुराणामपि शीघ्रगामिनः ॥ २८ ॥

न खल्वयं नाभिभवेदुपेक्षितः

पराक्रमो ह्यस्य रणे विवर्धते ।

प्रमापणं त्वेव ममास्य रोचते

न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ २९ ॥

इति प्रवेगं तु परस्य तर्कय-

-न्स्वकर्मयोगं च विधाय वीर्यवान् ।

चकार वेगं तु महाबलस्तदा

मतिं च चक्रेऽस्य वधे महाकपिः ॥ ३० ॥

स तस्य तानष्टहयान्महाजवा-

-न्समाहितान्भारसहान्विवर्तने ।

जघान वीरः पथि वायुसेविते

तलप्रहारैः पवनात्मजः कपिः ॥ ३१ ॥

ततस्तलेनाभिहतो महारथः

स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।

प्रभग्ननीडः परिमुक्तकूबरः

पपात भूमौ हतवाजिरम्बरात् ॥ ३२ ॥

स तं परित्यज्य महारथो रथं

सकार्मुकः खड्गधरः खमुत्पतन् ।

तपोभियोगादृषिरुग्रवीर्यवा-

-न्विहाय देहं मरुतामिवालयम् ॥ ३३ ॥

ततः कपिस्तं विचरन्तमम्बरे

पतत्रिराजानिलसिद्धसेविते ।

समेत्य तं मारुततुल्यविक्रमः

क्रमेण जग्राह स पादयोर्दृढम् ॥ ३४ ॥

स तं समाविध्य सहस्रशः कपि-

-र्महोरगं गृह्य इवाण्डजेश्वरः ।

मुमोच वेगात्पितृतुल्यविक्रमो

महीतले सम्यति वानरोत्तमः ॥ ३५ ॥

स भग्नबाहूरुकटीशिरोधरः

क्षरन्नसृङ्निर्मथितास्थिलोचनः ।

प्रभिन्नसन्धिः प्रविकीर्णबन्धनो

हतः क्षितौ वायुसुतेन राक्षसः ।

महाकपिर्भूमितले निपीड्य तं

चकार रक्षोधिपतेर्महद्भयम् ॥ ३६ ॥

महर्षिभिश्चक्रचरैर्महाव्रतैः

समेत्य भूतैश्च सयक्षपन्नगैः ।

सुरैश्च सेन्द्रैर्भृशजातविस्मयै-

-र्हते कुमारे स कपिर्निरीक्षितः ॥ ३७ ॥

निहत्य तं वज्रिसुतोपमं रणे

कुमारमक्षं क्षतजोपमेक्षणम् ।

तदेव वीरोऽभिजगाम तोरणं

कृतक्षणः काल इव प्रजाक्षये ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥

valmiki ramayan sundarakand adhyay 47