Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड चतुश्चत्वारिंशः

॥ जम्बुमालिवधः ॥

सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।

जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥

रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।

महान्विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २ ॥

[* अधिकपाठः –

दग्धत्रिकूटप्रतिमो महाजलदसन्निभः ।

महाभुजशिरःस्कन्धो महादंष्ट्रो महाननः ।

महाजवो महोत्साहो महासत्त्वोरुविक्रमः ।

आजगामातिवेगेन सायुधः स महारथः ।

*]

धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् ।

विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ ३ ॥

तस्य विस्फारघोषेण धनुषो महता दिशः ।

प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ४ ॥

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।

हनुमान्वेगसम्पन्नो जहर्ष च ननाद च ॥ ५ ॥

तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् ।

जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥

अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।

बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७ ॥

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।

शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ ८ ॥

तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ।

यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ९ ॥

चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।

ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥ १० ॥

तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।

तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ११ ॥

विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः ।

सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२ ॥

भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।

चिक्षेप सुबहून्बाणान् जम्बुमाली महाबलः ॥ १३ ॥

सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।

शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४ ॥ [उरस]

स शरैः पूरिततनुः क्रोधेन महता वृतः ।

तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १५ ॥

अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।

परिघं पातयामास जम्बुमालेर्महोरसि ॥ १६ ॥

तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।

न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १७ ॥

स हतस्तरसा तेन जम्बुमाली महाबलः ।

पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ १८ ॥

जम्बुमालिं च निहतं किं‍करांश्च महाबलान् ।

चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ १९ ॥

स रोषसंवर्तितताम्रलोचनः

प्रहस्तपुत्रे निहते महाबले ।

अमात्यपुत्रानतिवीर्यविक्रमा-

-न्समादिदेशाशु निशाचरेश्वरः ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

valmiki ramayan sundarakand adhyay 44