Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड पञ्चत्रिंशः

॥ विश्वासोत्पादनम् ॥

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ।

उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ १ ॥

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।

वानराणां नराणां च कथमासीत्समागमः ॥ २ ॥

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।

तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ ३ ॥

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।

कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ ४ ॥

एवमुक्तस्तु वैदेह्या हनुमान्पवनात्मजः । [मारुतात्मजः]

ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ५ ॥

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।

भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ॥ ६ ॥

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।

लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ ७ ॥

रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।

रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ ८ ॥

तेजसादित्यसङ्काशः क्षमया पृथिवीसमः ।

बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ ९ ॥

रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता ।

रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥ १० ॥

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।

मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ११ ॥

अर्चिष्मानर्चितो नित्यं ब्रह्मचर्यव्रते स्थितः ।

साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२ ॥

राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।

श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ॥ १३ ॥

यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।

धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ॥ १४ ॥

विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।

गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥ १५ ॥

दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।

समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ १६ ॥

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।

त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ १७ ॥

त्रिवलीमांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।

चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ॥ १८ ॥

चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः ।

महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥ १९ ॥

दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् ।

षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ॥ २० ॥

सत्यधर्मपरः श्रीमान् सङ्ग्रहानुग्रहे रतः ।

देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ २१ ॥

भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।

अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ २२ ॥

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।

विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ॥ २३ ॥

त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।

ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ २४ ॥

ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।

भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ २५ ॥

वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।

परिचर्यास्महे राज्यात्पूर्वजेनावरोपितम् ॥ २६ ॥

ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।

ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ २७ ॥

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।

अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ २८ ॥

ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः ।

तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ २९ ॥

तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू ।

रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ॥ ३० ॥

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।

पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ ३१ ॥

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।

तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ॥ ३२ ॥

ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।

परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ ३३ ॥

तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।

स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ ३४ ॥

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।

लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ३५ ॥

स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।

तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ ३६ ॥

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।

यान्याभरणजालानि पातितानि महीतले ॥ ३७ ॥

तानि सर्वाणि रामाय आनीय हरियूथपाः ।

संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ ३८ ॥

तानि रामाय दत्तानि मयैवोपहृतानि च ।

स्वनवन्त्यवकीर्णानि तस्मिन्विगतचेतसि ॥ ३९ ॥

तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।

तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ४० ॥

पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः ।

प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् ॥ ४१ ॥

शयितं च चिरं तेन दुःखार्तेन महात्मना ।

मयाऽपि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥ ४२ ॥

तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः । [महाबाहुः]

राघवः सहसौमित्रिः सुग्रीवे सं‍न्यवेदयत् ॥ ४३ ॥

स तवादर्शनादार्ये राघवः परितप्यते ।

महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ४४ ॥

त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।

तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ॥ ४५ ॥

तवादर्शनशोकेन राघवः परिचाल्यते ।

महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ४६ ॥

काननानि सुरम्याणि नदीः प्रस्रवणानि च ।

चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ ४७ ॥

स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।

समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ ४८ ॥

सहितौ रामसुग्रीवावुभावकुरुतां तदा ।

समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥ ४९ ॥

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।

किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥ ५० ॥

ततो निहत्य तरसा रामो वालिनमाहवे ।

सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम् ॥ ५१ ॥

रामसुग्रीवयोरैक्यं देव्येवं समजायत ।

हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥ ५२ ॥

स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।

त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ ५३ ॥

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।

अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५४ ॥

ततस्तु मार्गमाणास्ते सुग्रीववचनातुराः ।

चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५५ ॥

अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः ।

प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५६ ॥

तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।

भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५७ ॥

ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च ।

भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५८ ॥

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।

अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥ ५९ ॥

दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् ।

भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ॥ ६० ॥

तव नाशं च वैदेहि वालिनश्च तथा वधम् ।

प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ ६१ ॥

तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।

कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् ॥ ६२ ॥

गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।

श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ ६३ ॥

यवीयान्केन मे भ्राता हतः क्व च निपातितः ।

एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ ६४ ॥

अङ्गदोकथयत्तस्य जनस्थाने महद्वधम् ।

रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ ६५ ॥

जटायुषो वधं श्रुत्वा दुःखितः सोऽरुणात्मजः ।

त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ ६६ ॥

तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।

अङ्गदप्रमुखास्तूर्णं ततः सम्प्रस्थिता वयम् ॥ ६७ ॥

विन्ध्यादुत्थाय सम्प्राप्ताः सागरस्यान्तमुत्तरम् ।

त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ ६८ ॥

अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।

चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ॥ ६९ ॥

अथाऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।

व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ ७० ॥

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।

रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ॥ ७१ ॥

एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।

अभिभाषस्व मां देवि दूतो दाशरथेरहम् ॥ ७२ ॥

तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।

सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ॥ ७३ ॥

कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।

गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ ७४ ॥

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।

अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह ॥ ७५ ॥

मयेयमसहायेन चरता कामरूपिणा ।

दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ॥ ७६ ॥

दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।

अपनेष्यामि सन्तापं तवाभिगमशंसनात् ॥ ७७ ॥

दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।

प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ॥ ७८ ॥

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।

समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥ ७९ ॥

माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।

ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ ८० ॥

स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।

तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ ८१ ॥

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।

हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ॥ ८२ ॥

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।

अचिराद्राघवो देवि त्वामितो नयितानघे ॥ ८३ ॥

एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।

उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥ ८४ ॥

अतुलं च गता हर्षं प्रहर्षेण च जानकी ।

नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ॥ ८५ ॥

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।

अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ ८६ ॥

हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।

अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ८७ ॥

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।

किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ८८ ॥

हतेऽसुरे सम्यति शम्बसादने

कपिप्रवीरेण महर्षिचोदनात् ।

ततोऽस्मि वायुप्रभवो हि मैथिलि

प्रभावतस्तत्प्रतिमश्च वानरः ॥ ८९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥

valmiki ramayan sundarakand adhyay 35