Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड पञ्चमः

॥ भवनविचयः ॥

ततः स मध्यं गतमंशुमन्तं

ज्योत्स्नावितानं महदुद्वमन्तम् ।

ददर्श धीमान्दिवि भानुमन्तं

गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १ ॥

लोकस्य पापानि विनाशयन्तं

महोदधिं चापि समेधयन्तम् ।

भूतानि सर्वाणि विराजयन्तं

ददर्श शीतांशुमथाभियान्तम् ॥ २ ॥

या भाति लक्ष्मीर्भुवि मन्दरस्था

तथा प्रदोषेषु च सागरस्था ।

तथैव तोयेषु च पुष्करस्था

रराज सा चारुनिशाकरस्था ॥ ३ ॥

हंसो यथा राजतपञ्जरस्थः

सिंहो यथा मन्दरकन्दरस्थः ।

वीरो यथा गर्वितकुञ्जरस्थ-

-श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥ ४ ॥

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो

महाचलः श्वेत इवोच्चशृङ्गः ।

हस्तीव जाम्बूनदबद्धशृङ्गो

रराज चन्द्रः परिपूर्णशृङ्गः ॥ ५ ॥

विनष्टशीताम्बुतुषारपङ्को

महाग्रहग्राहविनष्टपङ्कः ।

प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को

रराज चन्द्रो भगवान् शशाङ्कः ॥ ६ ॥

शिलातलं प्राप्य यथा मृगेन्द्रो

महारणं प्राप्य यथा गजेन्द्रः ।

राज्यं समासाद्य यथा नरेन्द्र-

-स्तथा प्रकाशो विरराज चन्द्रः ॥ ७ ॥

प्रकाशचन्द्रोदयनष्टदोषः

प्रवृद्धरक्षः पिशिताशदोषः ।

रामाभिरामेरितचित्तदोषः

स्वर्गप्रकाशो भगवान् प्रदोषः ॥ ८ ॥

तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः

स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।

नक्तञ्चराश्चापि तथा प्रवृत्ताः

विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ९ ॥

मत्तप्रमत्तानि समाकुलानि

रथाश्वभद्रासनसङ्कुलानि ।

वीरश्रिया चापि समाकुलानि

ददर्श धीमान् स कपिः कुलानि ॥ १० ॥

परस्परं चाधिकमाक्षिपन्ति

भुजांश्च पीनानधिनिक्षिपन्ति ।

मत्तप्रलापानधिकं क्षिपन्ति

मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ११ ॥

रक्षांसि वक्षांसि च विक्षिपन्ति

गात्राणि कान्तासु च विक्षिपन्ति ।

रूपाणि चित्राणि च विक्षिपन्ति

दृढानि चापानि च विक्षिपन्ति ॥ १२ ॥

ददर्श कान्ताश्च समालभन्त्य-

-स्तथाऽपरास्तत्र पुनः स्वपन्त्यः ।

सुरूपवक्त्राश्च तथा हसन्त्यः

क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥ १३ ॥

महागजैश्चापि तथा नदद्भिः

सुपूजितैश्चापि तथा सुसद्भिः ।

रराज वीरैश्च विनिःश्वसद्भि-

-र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥ १४ ॥

बुद्धिप्रधानान् रुचिराभिधानान्

संश्रद्दधानान् जगतः प्रधानान् ।

नानाविधानान् रुचिराभिधानान्

ददर्श तस्यां पुरि यातुधानान् ॥ १५ ॥

ननन्द दृष्ट्वा स च तान्सुरूपा-

-न्नानागुणानात्मगुणानुरूपान् ।

विद्योतमानान् स तदानुरूपान्

ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १६ ॥

ततो वरार्हाः सुविशुद्धभावा-

-स्तेषां स्त्रियस्तत्र महानुभावाः ।

प्रियेषु पानेषु च सक्तभावा

ददर्श तारा इव सुप्रभावाः ॥ १७ ॥

श्रिया ज्वलन्तीस्त्रपयोपगूढा

निशीथकाले रमणोपगूढाः ।

ददर्श काश्चित्प्रमदोपगूढा

यथा विहङ्गाः कुसुमोपगूढाः ॥ १८ ॥

अन्याः पुनर्हर्म्यतलोपविष्टा-

-स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।

भर्तुः प्रिया धर्मपरा निविष्टा

ददर्श धीमान्मदनाभिविष्टाः ॥ १९ ॥

अप्रावृताः काञ्चनराजिवर्णाः

काश्चित्परार्थ्यास्तपनीयवर्णाः ।

पुनश्च काश्चिच्छशलक्ष्मवर्णाः

कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ २० ॥

ततः प्रियान्प्राप्य मनोभिरामान्

सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः ।

गृहेषु हृष्टाः परमाभिरामाः

हरिप्रवीरः स ददर्श रामाः ॥ २१ ॥

चन्द्रप्रकाशाश्च हि वक्त्रमाला

वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।

विभूषणानां च ददर्श मालाः

शतह्रदानामिव चारुमालाः ॥ २२ ॥

न त्वेव सीतां परमाभिजातां

पथि स्थिते राजकुले प्रजाताम् ।

लतां प्रफुल्लामिव साधुजातां

ददर्श तन्वीं मनसाऽभिजाताम् ॥ २३ ॥

सनातने वर्त्मनि सन्निविष्टां

रामेक्षणान्तां मदनाभिविष्टाम् ।

भर्तुर्मनः श्रीमदनुप्रविष्टां

स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २४ ॥

उष्णार्दितां सानुसृतास्रकण्ठीं

पुरा वरार्होत्तमनिष्ककण्ठीम् ।

सुजातपक्ष्मामभिरक्तकण्ठीं

वने प्रनृत्तामिव नीलकण्ठीम् ॥ २५ ॥

अव्यक्तरेखामिव चन्द्ररेखां

पांसुप्रदिग्धामिव हेमरेखाम् ।

क्षतप्ररूढामिव बाणरेखां

वायुप्रभिन्नामिव मेघरेखाम् ॥ २६ ॥

सीतामपश्यन्मनुजेश्वरस्य

रामस्य पत्नीं वदतां वरस्य ।

बभूव दुःखाभिहतश्चिरस्य

प्लवङ्गमो मन्द इवाचिरस्य ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५ ॥

valmiki ramayan sundarakand adhyay 5