Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड एकचत्वारिंशः

॥ प्रमदावनभञ्जनम् ॥

स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया ।

तस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ १ ॥

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।

त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ २ ॥

न साम रक्षःसु गुणाय कल्पते

न दानमर्थोपचितेषु युज्यते ।

न भेदसाध्या बलदर्पिता जनाः

पराक्रमस्त्वेव ममेह रोचते ॥ ३ ॥

न चास्य कार्यस्य पराक्रमादृते

विनिश्चयः कश्चिदिहोपपद्यते ।

हतप्रवीरा हि रणे हि राक्षसाः

कथं‍चिदीयुर्यदिहाद्य मार्दवम् ॥ ४ ॥

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।

पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ ५ ॥

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।

यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ ६ ॥

इहैव तावत्कृतनिश्चयो ह्यहं

यदि व्रजेयं प्लवगेश्वरालयम् ।

परात्मसं‍मर्दविशेषतत्त्ववि-

-त्ततः कृतं स्यान्मम भर्तृशासनम् ॥ ७ ॥

कथं नु खल्वद्य भवेत्सुखागतं

प्रसह्य युद्धं मम राक्षसैः सह ।

तथैव खल्वात्मबलं च सारव-

-त्सं‍मानयेन्मां च रणे दशाननः ॥ ८ ॥

ततः समासाद्य रणे दशाननं

समन्त्रिवर्गं सबलप्रयायिनम् ।

हृदि स्थितं तस्य मतं बलं च वै

सुखेन मत्वाहमितः पुनर्व्रजे ॥ ९ ॥

इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।

वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ १० ॥

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।

अस्मिन्भग्ने ततः कोपं करिष्यति दशाननः ॥ ११ ॥

ततो महत्साश्वमहारथद्विपं

बलं समादेक्ष्यति राक्षसाधिपः ।

त्रिशूलकालायसपट्‍टसायुधं

ततो महद्युद्धमिदं भविष्यति ॥ १२ ॥

अहं तु तैः सम्यति चण्डविक्रमैः

समेत्य रक्षोभिरसह्यविक्रमः ।

निहत्य तद्रावणचोदितं बलं

सुखं गमिष्यामि कपीश्वरालयम् ॥ १३ ॥

ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः ।

ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ १४ ॥

ततस्तु हनुमान्वीरो बभञ्ज प्रमदावनम् ।

मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १५ ॥

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।

चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ १६ ॥

नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ।

ताम्रैः किलसयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ॥ १७ ॥

न बभौ तद्वनं तत्र दावानलहतं यथा ।

व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ १८ ॥

लतागृहैश्चित्रगृहैश्च नाशितै-

-र्महोरगैर्व्यालमृगैश्च निर्धुतैः ।

शिलागृहैरुन्मथितैस्तथा गृहैः

प्रनष्टरूपं तदभून्महद्वनम् ॥ १९ ॥

सा विह्वलाऽशोकलताप्रताना

वनस्थली शोकलताप्रताना ।

जाता दशास्यप्रमदावनस्य

कपेर्बलाद्धि प्रमदावनस्य ॥ २० ॥

स तस्य कृत्वाऽर्थपतेर्महाकपि-

-र्महद्व्यलीकं मनसो महात्मनः ।

युयुत्सुरेको बहुभिर्महाबलैः

श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

valmiki ramayan sundarakand adhyay 41