Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड सप्तमः

॥ पुष्पकदर्शनम् ॥

स वेश्मजालं बलवान्ददर्श

व्यासक्तवैडूर्यसुवर्णजालम् ।

यथा महत्प्रावृषि मेघजालं

विद्युत्पिनद्धं स विहङ्गजालम् ॥ १ ॥

निवेशनानां विविधाश्च शालाः

प्रधानशङ्खायुधचापशालाः ।

मनोहराश्चाऽपि पुनर्विशालाः

ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ २ ॥

गृहाणि नानावसुराजितानि

देवासुरैश्चापि सुपूजितानि ।

सर्वैश्च दोषैः परिवर्जितानि

कपिर्ददर्श स्वबलार्जितानि ॥ ३ ॥

तानि प्रयत्नाभिसमाहितानि

मयेन साक्षादिव निर्मितानि ।

महीतले सर्वगुणोत्तराणि

ददर्श लङ्काधिपतेर्गृहाणि ॥ ४ ॥

ततो ददर्शोच्छ्रितमेघरूपं

मनोहरं काञ्चनचारुरूपम् ।

रक्षोऽधिपस्यात्मबलानुरूपं

गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ ५ ॥

महीतले स्वर्गमिव प्रकीर्णं

श्रिया ज्वलन्तं बहुरत्नकीर्णम् ।

नानातरूणां कुसुमावकीर्णं

गिरेरिवाग्रं रजसावकीर्णम् ॥ ६ ॥

नारीप्रवेकैरिव दीप्यमानं

तटिद्भिरम्भोदवदर्च्यमानम् ।

हंसप्रवेकैरिव वाह्यमानं

श्रिया युतं खे सुकृतां विमानम् ॥ ७ ॥

यथा नगाग्रं बहुधातुचित्रं

यथा नभश्च ग्रहचन्द्रचित्रम् ।

ददर्श युक्तीकृतमेघचित्रं

विमानरत्नं बहुरत्नचित्रम् ॥ ८ ॥

मही कृता पर्वतराजिपूर्णा

शैलाः कृता वृक्षवितानपूर्णाः ।

वृक्षाः कृताः पुष्पवितानपूर्णाः

पुष्पं कृतं केसरपत्रपूर्णम् ॥ ९ ॥

कृतानि वेश्मानि च पाण्डुराणि

तथा सुपुष्पाण्यपि पुष्कराणि ।

पुनश्च पद्मानि सकेसराणि

धन्यानि चित्राणि तथा वनानि ॥ १० ॥

पुष्पाह्वयं नाम विराजमानं

रत्नप्रभाभिश्च विवर्धमानम् ।

वेश्मोत्तमानामपि चोच्चमानं

महाकपिस्तत्र महाविमानम् ॥ ११ ॥

कृताश्च वैडूर्यमया विहङ्गाः

रूप्यप्रवालैश्च तथा विहङ्गाः ।

चित्राश्च नाना वसुभिर्भुजङ्गाः

जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ १२ ॥

प्रवालजाम्बूनदपुष्पपक्षाः

सलीलमावर्जितजिह्मपक्षाः ।

कामस्य साक्षादिव भान्ति पक्षाः

कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ १३ ॥

नियुज्यमानास्तु गजाः सुहस्ताः

सकेसराश्चोत्पलपत्रहस्ताः ।

बभूव देवी च कृता सुहस्ता

लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ १४ ॥

इतीव तद्गृहमभिगम्य शोभनं

सविस्मयो नगमिव चारुशोभनम् ।

पुनश्च तत्परमसुगन्धि सुन्दरं

हिमात्यये नगमिव चारुकन्दरम् ॥ १५ ॥

ततः स तां कपिरभिपत्य पूजितां

चरन् पुरीं दशमुखबाहुपालिताम् ।

अदृश्य तां जनकसुतां सुपूजितां

सुदुःखितः पतिगुणवेगनिर्जिताम् ॥ १६ ॥

ततस्तदा बहुविधभावितात्मनः

कृतात्मनो जनकसुतां सुवर्त्मनः ।

अपश्यतोऽभवदतिदुःखितं मनः

सुचक्षुषः प्रविचरतो महात्मनः ॥ १७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥ ७ ॥

valmiki ramayan sundarakand adhyay 7