Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड द्वितीयः

॥ निशागमप्रतीक्षा ॥

स सागरमनाधृष्यमतिक्रम्य महाबलः ।

त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥ १ ॥

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।

अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ २ ॥

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।

अनिःश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥

शतान्यहं योजनानां क्रमेयं सुबहून्यपि ।

किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ॥ ४ ॥

स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।

जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम् ॥ ५ ॥

शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।

गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥

शैलांश्च तरुसञ्छन्नान्वनराजीश्च पुष्पिताः ।

अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः ॥ ७ ॥

स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।

स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥

सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।

प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥

प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।

असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥

पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ।

पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥

हंसकारण्डवाकीर्णाः वापीः पद्मोत्पलायुताः ।

आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥

सन्ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ।

उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ ॥

समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् ।

परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् ॥ १४ ॥

सीतापहरणार्थेन रावणेन सुरक्षिताम् ।

समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ १५ ॥

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।

गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः ॥ १६ ॥

पाण्डराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् ।

अट्‍टालकशताकीर्णां पताकाध्वजमालिनीम् ॥ १७ ॥

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः ।

ददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव ॥ १८ ॥

गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।

ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥ १९ ॥

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।

प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् ॥ २० ॥

वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।

शतघ्नीशूलकेशान्तामट्‍टालकवतंसकाम् ॥ २१ ॥

मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा ।

द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ २२ ॥

कैलासशिखरप्रख्यामालिखन्तीमिवाम्बरम् ।

डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ २३ ॥

सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।

अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ २४ ॥

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्‍टिसपाणिभिः ।

रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ २५ ॥

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।

रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २६ ॥

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ।

नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥ २७ ॥

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।

प्राप्यापि स महाबाहुः किं करिष्यति राघवः ॥ २८ ॥

अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते ।

न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ ॥

चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।

वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० ॥

यावज्जानामि वैदेहीं यदि जीवति वा नवा ।

तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ ३१ ॥

ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।

गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः ॥ ३२ ॥

अनेन रूपेण मया न शक्या रक्षसां पुरी ।

प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३३ ॥

उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ।

वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ ३४ ॥

लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया ।

प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ ३५ ॥

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ।

हनूमांश्चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥ ३६ ॥ [विनिश्वस्य]

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ।

अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ३७ ॥

न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।

एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ ३८ ॥

भूताश्चार्था विपद्यन्ते देशकालविरोधिताः ।

विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३९ ॥

अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि न शोभते ।

घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ४० ॥

न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ।

लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ४१ ॥

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।

भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥ ४२ ॥

न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः ।

अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४३ ॥

वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।

न ह्यस्त्यविदितं किञ्चिद्राक्षसानां बलीयसाम् ॥ ४४ ॥

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।

विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥ ४५ ॥

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।

लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४६ ॥

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।

विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ४७ ॥

इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ।

आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ ॥

सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः ।

वृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः ॥ ४९ ॥

प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।

प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥ ५० ॥

प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।

शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ ॥

सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् ।

तलैः स्फटिकसङ्कीर्णैः कार्तस्वरविभूषितैः ॥ ५२ ॥

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।

तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५३ ॥

काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ।

लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् ॥ ५४ ॥

अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।

आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५५ ॥

स पाण्डुरोद्विद्धविमानमालिनीं

महार्हजाम्बूनदजालतोरणाम् ।

यशस्विनीं रावणबाहुपालितां

क्षपाचरैर्भीमबलैः समावृताम् ॥ ५६ ॥

चन्द्रोऽपि साचिव्यमिवास्य कुर्वं-

-स्तारागणैर्मध्यगतो विराजन् ।

ज्योत्स्नावितानेन वितत्य लोक-

-मुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५७ ॥

शङ्खप्रभं क्षीरमृणालवर्ण-

-मुद्गच्छमानं व्यवभासमानम् ।

ददर्श चन्द्रं स हरिप्रवीरः

पोप्लूयमानं सरसीव हंसम् ॥ ५८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥ २ ॥

valmiki ramayan sundarakand adhyay 2