Skip to main content
पडताळणी प्रलंबित

सुन्दरकाण्ड द्वाविंशः

॥ मासद्वयावधिकरणम् ॥

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।

प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ १ ॥

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।

यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ २ ॥

सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।

द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ ३ ॥

वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।

जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ ४ ॥

एतस्मात्कारणान्न त्वां घातयामि वरानने ।

वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ॥ ५ ॥

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् ।

तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥ ६ ॥

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।

क्रोधसंरम्भसम्युक्तः सीतामुत्तरमब्रवीत् ॥ ७ ॥

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।

ततः शयनमारोह मम त्वं वरवर्णिनि ॥ ८ ॥

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ।

मम त्वां प्रातराशार्थमालभन्ते महानसे ॥ ९ ॥

तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।

देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ १० ॥

ओष्ठप्रकारैरपरा वक्त्रैर्नेत्रैस्तथाऽपराः ।

सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ ११ ॥

ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।

उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ १२ ॥

नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः ।

निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥ १३ ॥

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।

त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥ १४ ॥

राक्षसाधम रामस्य भार्याममिततेजसः ।

उक्तवानसि यच्छापं क्व गतस्तस्य मोक्ष्यसे ॥ १५ ॥

यथा दृप्तश्च मातङ्गः शशश्च सहितो वने ।

तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥ १६ ॥

स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।

चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ १७ ॥

इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।

क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः ॥ १८ ॥

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।

कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते ॥ १९ ॥

असन्देशात्तु रामस्य तपसश्चानुपालनात् ।

न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ॥ २० ॥

नापहर्तुमहं शक्या तस्या रामस्य धीमतः ।

विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ २१ ॥

शूरेण धनदभ्रात्रा बलैः समुदितेन च ।

अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥ २२ ॥

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।

विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३ ॥

नीलजीमूतसङ्काशो महाभुजशिरोधरः ।

सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः ॥ २४ ॥

चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः ।

रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ २५ ॥

श्रोणीसूत्रेण महता मेचकेन सुसंवृतः ।

अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥ २६ ॥

द्वाभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । [ताभ्यां]

शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥ २७ ॥

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।

रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २८ ॥

स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् ।

श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः ॥ २९ ॥

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।

उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥ ३० ॥

अनयेनाभिसम्पन्नमर्थहीनमनुव्रते ।

नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ॥ ३१ ॥

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।

सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥ ३२ ॥

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।

गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥ ३३ ॥

हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम् ।

एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ ३४ ॥

अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।

अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ॥ ३५ ॥

अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।

यथा मद्वशगा सीता क्षिप्रं भवति जानकी ॥ ३६ ॥

तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ।

प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ॥ ३७ ॥

आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ।

इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ॥ ३८ ॥

काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ।

उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ॥ ३९ ॥

परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।

मया क्रीड महाराज सीतया किं तवानया ॥ ४० ॥

विवर्णया कृपणया मानुष्या राक्षसेश्वर ।

नूनमस्या महाराज न दिव्यान्भोगसत्तमान् ॥ ४१ ॥

विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान् ।

अकामां कामयानस्य शरीरमुपतप्यते ॥ ४२ ॥

इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ।

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ॥ ४३ ॥

प्रहसन्मेघसङ्काशो राक्षसः स न्यवर्तत ।

प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ॥ ४४ ॥

ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।

देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः ।

परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ ४५ ॥

स मैथिलीं धर्मपरामवस्थितां

प्रवेपमानां परिभर्त्स्य रावणः ।

विहाय सीतां मदनेन मोहितः

स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥

valmiki ramayan sundarakand adhyay 22