Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड दशमः

॥ कैकेय्यनुनयः ॥

विदर्शिता यदा देवी कुब्जया पापया भृशम् ।

तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥ १ ॥

निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी ।

मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २ ॥

सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।

नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ॥ ३ ॥

मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।

सा सुहृच्चार्थकामा च तन्निशम्य सुनिश्चयम् ॥ ४ ॥

बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ।

अथ सा मर्षिता देवी सम्यक्कृत्वा सुनिश्चयम् ॥ ५ ॥

संविवेशाबला भूमौ निवेश्य भृकुटीं मुखे ।

ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ ६ ॥

अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।

तया तान्यपविद्धानि माल्यान्याभरणानि च ॥ ७ ॥

अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।

क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥ ८ ॥

एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी ।

आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ॥ ९ ॥

उपस्थासमनुज्ञाप्य प्रविवेश निवेशनम् ।

अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥ १० ॥

प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी ।

स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥ ११ ॥

पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ।

शुकबर्हिणसङ्घुष्टं क्रौञ्चहंसरुतायुतम् ॥ १२ ॥

वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम् ।

लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥ १३ ॥

दान्तराजतसौवर्णवेदिकाभिः समायुतम् ।

नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥ १४ ॥

दान्तराजतसौवर्णैः संवृतं परमासनैः ।

विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ १५ ॥

उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम् ।

तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ १६ ॥

न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।

स कामबलसम्युक्तो रत्यर्थं मनुजाधिपः ॥ १७ ॥

अपश्यन्दयितां भार्यां पप्रच्छ विषसाद च ।

न हि तस्य पुरा देवी तां वेलामत्यवर्तत ॥ १८ ॥

न च राजा गृहं शून्यं प्रविवेश कदाचन ।

ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ १९ ॥

यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ।

प्रतिहारी त्वथोवाच सन्त्रस्ता रचिताञ्जलिः ॥ २० ॥

देव देवी भृशं कृद्धा क्रोधागारमभिदृता ।

प्रतिहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥ २१ ॥

विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ।

तत्र तां पतितां भूमौ शयानामतथोचिताम् ॥ २२ ॥

प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ।

स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥ २३ ॥

अपापः पापसङ्कल्पां ददर्श धरणीतले ।

लतामिव विनिष्कृत्तां पतितां देवतामिव ॥ २४ ॥

किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।

मायामिव परिभ्रष्टां हरिणीमिव सम्यताम् ॥ २५ ॥

करेणुमिव दिग्धेन विद्धां मृगयुना वने ।

महागज इवारण्ये स्नेहात्परिममर्श ताम् ॥ २६ ॥

परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः ।

कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २७ ॥

न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।

देवि केनाभिशप्ता७सि केन वाऽसि विमानिता ॥ २८ ॥

यदिदं मम दुःखाय शेषे कल्याणि पांसुषु ।

भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ॥ २९ ॥

भूतोपहतचित्तेव मम चित्तप्रमाथिनी ।

सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ ३० ॥

सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनी ।

कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ॥ ३१ ॥

कः प्रियं लभतामद्य को वा सुमहदप्रियम् ।

मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम् ॥ ३२ ॥

अवध्यो वध्यतां को वा कोवा वध्यः विमुच्यताम् ।

दरिद्रः को भवेदाढ्यो द्रव्यवान् वाऽप्यकिञ्चनः ॥ ३३ ॥

अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।

न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ ३४ ॥

आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि ।

बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ ३५ ॥

करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।

यावदावर्तते चक्रं तावती मे वसुन्धरा ॥ ३६ ॥

प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।

वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥ ३७ ॥

तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ।

ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ ३८ ॥

किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने ।

तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥ ३९ ॥

तत्ते व्यपनयिष्यामि नीहारमिव भास्करः । [रश्मिवान्]

तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ।

परिपीडयितुं भूयो भर्तारमुपचक्रमे ॥ ४० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशमः सर्गः ॥ १० ॥

valmiki ramayan ayodhyakand adhyay 10