Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड सप्तषष्टितमः

॥ अराजकदुरवस्थावर्णनम् ॥

आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला ।

आयोध्यायामवतता सा व्यतीयाय शर्वरी ॥ १ ॥

व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः ।

समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ २ ॥

मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः ।

कात्ययनो गौतमश्च जाबालिश्च महायशाः ॥ ३ ॥

एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् ।

वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥ ४ ॥

अतीता शर्वरी दुःखं या नो वर्षशतोपमा ।

अस्मिन् पञ्चत्वमापन्ने पुत्र शोकेन पार्थिवे ॥ ५ ॥

स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः ।

लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥ ६ ॥

उभौ भरत शत्रुघ्नौ केकयेषु परन्तपौ ।

पुरे राजगृहे रम्ये मातामहनिवेशने ॥ ७ ॥

इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।

अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् ॥ ८ ॥

नाराजके जनपदे विद्युन्माली महास्वनः ।

अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ ९ ॥

नाराजके जनपदे बीजमुष्टिः प्रकीर्यते ।

नाराजके पितुः पुत्रः भार्या वा वर्तते वशे ॥ १० ॥

अराजके धनं नास्ति नास्ति भार्याऽप्यराजके ।

इदमत्याहितं चान्यत् कुतः सत्यमराजके ॥ ११ ॥

नाराजके जनपदे कारयन्ति सभां नराः ।

उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥ १२ ॥

नाराजके जनपदे यज्ञशीला द्विजातयः ।

सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥ १३ ॥

नाराजके जनपदे महायज्ञेषु यज्वनः ।

ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥ १४ ॥

नाराजके जनपदे प्रभूतनटनर्तकाः ।

उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः ॥ १५ ॥

नारजके जनपदे सिद्धार्था व्यवहारिणः ।

कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः ॥ १६ ॥

नाराजके जनपदे उद्यानानि समागताः ।

सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः ॥ १७ ॥

नाराजके जनपदे वाहनैः शीघ्रगामिभिः ।

नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ॥ १८ ॥

नाराजके जनपदे धनवन्तः सुरक्षिताः ।

शेरते विवृत द्वाराः कृषिगोरक्षजीविनः ॥ १९ ॥

नाराजके जनपदे बद्दघण्टाविषाणिनः ।

आटन्ति राजमार्गेषु कुञ्जरा षष्टिहायनाः ॥ २० ॥

नाराजके जनपदे शरान् सततमस्यताम् ।

श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥ २१ ॥

नाराजके जनपदे वणिजो दूरगामिनः ।

गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ॥ २२ ॥

नाराजके जनपदे चरत्येकचरः वशी ।

भावयन्नात्मनाऽऽत्मानं यत्र सायङ्गृहो मुनिः ॥ २३ ॥

नाराजके जनपदे योगक्षेमं प्रवर्तते ।

नचाप्यराजके सेना शत्रून् विषहते युधि ॥ २४ ॥

नाराजके जनपदे हृष्टैः परमवाजिभिः ।

नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥ २५ ॥

नाराजके जनपदे नराः शास्त्रविशारदाः ।

संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ २६ ॥

नाराजके जनपदे माल्यमोदकदक्षिणाः ।

देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥ २७ ॥

नाराजके जनपदे चन्दनागुरुरूषिताः ।

राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥ २८ ॥

यथा ह्यनुदका नद्यो यथा वाऽप्यतृणं वनम् ।

अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ २९ ॥

ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः ।

तेषां यो नो ध्वजो राज स देवत्वमितो गतः ॥ ३० ॥

नाराजके जनपदे स्वकं भवति कस्यचित् ।

मत्स्या इवनरा नित्यं भक्षयन्ति परस्परम् ॥ ३१ ॥

ये हि सम्भिन्नमर्यादा नास्तिकाश्चिन्न संशयाः ।

तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥ ३२ ॥

यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।

तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥ ३३ ॥

राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।

राजा माता पिता चैव राजा हितकरो नृणाम् ॥ ३४ ॥

यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।

विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः ॥ ३५ ॥

अहो तमैवेदं स्यात् न प्रज्ञायेत किञ्चन ।

राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥ ३६ ॥

जीवत्यपि महाराजे तवैव वचनं वयम् ।

नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ॥ ३७ ॥

स नः समीक्ष्य द्विजवर्य वृत्तम्

नृपं विना राज्यमरण्यभूतम् ।

कुमारमिक्ष्वाकु सुतं वदान्यम्

त्वमेव राजानमिहाभिषिञ्च ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥ ६७ ॥

valmiki ramayan ayodhyakand adhyay 67