Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड त्रिसप्ततितमः

॥ कैकेयीविगर्हणम् ॥

श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।

भरतो दुःख सन्तप्तैदं वचनमब्रवीत् ॥ १ ॥

किं नु कार्यं हतस्येह मम राज्येन शोचतः ।

विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥ २ ॥

दुःखे मे दुःखमकरोर्वृणे क्षारमिवादधाः ।

राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥ ३ ॥

कुलस्य त्वमभावाय काल रात्रिरिवागता ।

अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ ४ ॥

मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।

सुखं परिहृतं मोहात्कुलेऽस्मिन् कुलपांसिनि ॥ ५ ॥

त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः ।

तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः ॥ ६ ॥

विनाशितो महाराजः पिता मे धर्मवत्सलः ।

कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः ॥ ७ ॥

कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।

दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥ ८ ॥

ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् ।

वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥ ९ ॥

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी ।

त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते ॥ १० ॥

तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् ।

प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ ११ ॥

अपापदर्शनं शूरं कृतात्मानं यशस्विनम् ।

प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ॥ १२ ॥

लुब्धाया विदितः मन्ये न तेऽहं राघवं प्रति ।

तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतः महानयम् ॥ १३ ॥

अहं हि पुरुषव्याघ्रौ अपश्यन् रामलक्ष्मणौ ।

केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ १४ ॥

तं हि नित्यं महाराजो बलवन्तं महाबलः ।

अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ॥ १५ ॥

सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् ।

दम्यो धुरमिवासाद्य सहेयं केन चौजसा ॥ १६ ॥

अथवा मे भवेच्छक्तिर्योगैः बुद्धि बलेन वा ।

सकामां न करिष्यामि त्वामहं पुत्र गर्धिनीम् ॥ १७ ॥

न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।

यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥ १८ ॥

उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनी ।

साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ॥ १९ ॥

अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते ।

अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥ २० ॥

न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे ।

गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥ २१ ॥

सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।

राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥ २२ ॥

तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम् ।

अद्य चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्ततम् ॥ २३ ॥

तवापि सुमहाभागाः जनेन्द्राः कुलपूर्वगाः ।

बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः ॥ २४ ॥

न तु कामं करिष्यामि तवाऽहं पापनिश्चये ।

त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ २५ ॥

एष त्विदानीमेवाहमप्रियार्थं तवनघम् ।

निवर्तयिष्यामि वनात् भ्रातरं स्वजनप्रियम् ॥ २६ ॥

निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः ।

दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥ २७ ॥

इत्येवमुक्त्वा भरतः महात्मा

प्रियेतरैः वाक्य गणैस्तुदंस्ताम् ।

शोकातुरश्चापि ननाद भूयः

सिंहो यथा पर्वतगह्वरस्थः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥

valmiki ramayan ayodhyakand adhyay 73