Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड द्विपञ्चाशः

॥ गङ्गातरणम् ॥

प्रभातायां तु शर्वर्यां पृथु वृक्षा महा यशाः ।

उवाच रामः सौमित्रिं लक्ष्मणं शुभ लक्षणम् ॥ १ ॥

भास्करोदय कालोऽयं गता भगवती निशा ।

असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥ २ ॥

बर्हिणानां च निर्घोषः श्रूयते नदतां वने ।

तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् ॥ ३ ॥

विज्ञाय रामस्य वचः सौमित्रिर्मित्र नन्दनः ।

गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ ४ ॥

स तु रामस्य वचनं निशम्य प्रतिगृह्य च ।

स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥ ५ ॥

अस्य वाहनसम्युक्तां कर्णग्राहवतीं शुभाम् ।

सुप्रतारां दृढां तीर्थे शीग्रं नावमुपाहर ॥ ६ ॥

तं निशम्य समादेशं गुहामात्यगणो महान् । [गुहादेशं]

उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ ७ ॥

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।

उपस्थितेयं नौर्देव भूयः किं करवाणि ते ॥ ८ ॥

तवामरसुतप्रख्य तर्तुं सागरगां नदीम् ।

नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत! ॥ ९ ॥

अथोवाच महातेजाः रामो गुहमिदं वचः ।

कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥ १० ॥

ततः कलापान् सन्नह्य खड्गौ बद्ध्वा च धन्विनौ ।

जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ११ ॥

राममेव तु धर्मज्ञमुपगम्य विनीतवत् ।

किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ १२ ॥

ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।

स्पृशन् करेणोत्तमदक्षिणेन ।

सुमन्त्र शीघ्रं पुनरेव याहि ।

राज्ञः सकाशे भवचाप्रमत्तः ॥ १३ ॥

निवर्तस्व इत्युवाचैनमेतावद्धि कृतं मम ।

रथं विहाय पद्भ्यां तु गमिष्यामि महावनम् ॥ १४ ॥

आत्मानं तु अभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः ।

सुमन्त्रः पुरुष व्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥ १५ ॥

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् ।

तव सभ्रातृ भार्यस्य वासः प्राकृतवद्वने ॥ १६ ॥

न मन्ये ब्रह्म चर्येऽस्ति स्वधीते वा फलोऽदयः ।

मार्दवार्जवयोः वाऽपि त्वां चेद्व्यसनमागतम् ॥ १७ ॥

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।

त्वं गतिं प्राप्स्यसे वीर त्रीन् लोकांस्तु जयन्निव ॥ १८ ॥

वयं खलु हता राम ये तयाऽप्युपवञ्चिताः ।

कैकेय्या वशमेष्यामः पापाया दुःख भागिनः ॥ १९ ॥

इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा ।

दृष्ट्वा दूरगतं रामं दुःखार्तः रुरुदे चिरम् ॥ २० ॥

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् ।

रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् ॥ २१ ॥

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।

यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ २२ ॥

शोकोपहत चेताश्च वृद्धश्च जगती पतिः ।

काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥ २३ ॥

यद्यदाज्ञापयेत्किञ्चित् स महात्मा महीपतिः ।

कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया ॥ २४ ॥

एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।

यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २५ ॥

यद्यथा स महाराजो नालीकमधिगच्छति ।

न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ २६ ॥

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ।

ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २७ ॥

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली ।

अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च ॥ २८ ॥

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।

लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २९ ॥

एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे ।

अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः ॥ ३० ॥

आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् ।

सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य च ॥ ३१ ॥

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय ।

आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ ३२ ॥

भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ।

अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ ३३ ॥

भरतश्चापि वक्तव्यो यथा राजनि वर्तसे ।

तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ ३४ ॥

यथा च तव कैकेयी सुमित्रा च विशेषतः ।

तथैव देवी कौसल्या मम माता विशेषतः ॥ ३५ ॥

तातस्य प्रियकामेन यौवराज्यमवेक्षता ।

लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम् ॥ ३६ ॥

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः ।

तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ॥ ३७ ॥

यदहं नोपचारेण ब्रूयां स्नेहादविक्लबः ।

भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ॥ ३८ ॥

कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ।

तव तावद्वियोगेन पुत्र शोकाकुलामिव ॥ ३९ ॥

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ।

विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ४० ॥

दैन्यं हि नगरी गच्चेद्दृष्ट्वा शून्यमिमं रथम् ।

सूतावशेषं स्वं सैन्यं हत वीरमिवाहवे ॥ ४१ ॥

दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।

चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥ ४२ ॥

दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने ।

प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ॥ ४३ ॥

आर्तनादो हि यः पौरैः मुक्तस्त्वद्विप्रवासने ।

सरथं मां निशाम्यैव कुर्युः शत गुणं ततः ॥ ४४ ॥

अहं किं चापि वक्ष्यामि देवीं तव सुतः मया ।

नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति ॥ ४५ ॥

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् ।

कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ४६ ॥

मम तावन्नियोगस्थास्त्वद्बन्धु जनवाहिनः ।

कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ॥ ४७ ॥

तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ ।

वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ ४८ ॥

यदि मे याचमानस्य त्यागमेव करिष्यसि ।

सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥ ४९ ॥

भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।

रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ ५० ॥

तत्कृतेन मयाऽवाप्तं रथचर्याकृतं सुखम् ।

आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ ५१ ॥

प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ।

प्रीत्याऽभिहितमिच्छामि भव मे पत्यनन्तरः ॥ ५२ ॥

इमे चापि हया वीर यदि ते वनवासिनः ।

परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ५३ ॥

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।

अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ॥ ५४ ॥

न हि शक्या प्रवेष्टुं सा मया अयोध्या त्वया विना ।

राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ ५५ ॥

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।

यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ५६ ॥

चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।

क्षण भूतानि यास्यन्ति शतसङ्ख्याऽन्यतोऽन्यथा ॥ ५७ ॥

भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि ।

भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ ५८ ॥

एवं बहुविधं दीनं याचमानं पुनः पुनः ।

रामः भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ५९ ॥

जानामि परमां भक्तिं मयि ते भर्तृवत्सल ।

शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ ६० ॥

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।

कैकेयी प्रत्ययं गच्छेदिति रामः वनं गतः ॥ ६१ ॥

परितुष्टा हि सा देवि वनवासं गते मयि ।

राजानं नातिशङ्केत मिथ्या वादीति धार्मिकम् ॥ ६२ ॥

एष मे प्रथमः कल्पो यदम्बा मे यवीयसी ।

भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ॥ ६३ ॥

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।

सन्दिष्टश्चासि यानर्थान् तांस्तान् ब्रूयास्तथा तथा ॥ ६४ ॥

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः ।

गुहं वचनमक्लीबः रामः हेतुमदब्रवीत् ॥ ६५ ॥

नेदानीं गुह योग्योऽयं वसो मे सजने वने ।

अवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः ॥ ६६ ॥

सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम् ।

हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥ ६७ ॥

जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरमानय ।

तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ॥ ६८ ॥

लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ।

दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ॥ ६९ ॥

तौ तदा चीरवसनौ जटामण्डलधारिणौ ।

अशोभेतामृषिसमौ भ्रातरौ रामरक्ष्मणौ ॥ ७० ॥

ततः वैखानसं मार्गमास्थितः सहलक्ष्मणः ।

व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत् ॥ ७१ ॥

अप्रमत्तः बले कोशे दुर्गे जनपदे तथा ।

भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ ७२ ॥

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ।

जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ७३ ॥

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ।

तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ ७४ ॥

आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः ।

सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ ७५ ॥

स भ्रातुः शासनं शृत्वा सर्वमप्रतिकूलयन् ।

आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ ७६ ॥

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।

ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ ७७ ॥

राघवोऽपि महातेजाः नावमारुह्य तां ततः ।

ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥ ७८ ॥

आचम्य च यथाशास्त्रं नदीं तां सह सीतया ।

प्राणमत्प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः ॥ ७९ ॥

अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् ।

आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ ८० ॥

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता ।

शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ ८१ ॥

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।

वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ८२ ॥

पुत्रो दशरथस्यायं महाराजस्य धीमतः ।

निदेशं पालयत्वेमं गङ्गे त्वदभिरक्षितः ॥ ८३ ॥

चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ।

भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ८४ ॥

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ।

यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ॥ ८५ ॥

त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे ।

भार्या चोदधि राजस्य लोकेऽस्मिन् सम्प्रदृश्यसे ॥ ८६ ॥

सा त्वां देवि नमस्यामि प्रशंसामि च शोभने ।

प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ ८७ ॥

गवां शतसहस्रं च वस्त्राण्यन्नं च पेशलम् ।

ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ ८८ ॥

सुराघटसहस्रेण मांसभूतौदनेन च ।

यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ॥ ८९ ॥

यानि त्वत्तीरवासीनि दैवतानि वसन्ति च ।

तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ ९० ॥

पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः ।

अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ॥ ९१ ॥

तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता ।

दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ ९२ ॥

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।

प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ॥ ९३ ॥

अथाब्रवीन्महाबाहुः सुमित्रानन्द वर्धनम् ।

भव संरक्षणार्थाय सजने विजनेऽपि वा ॥ ९४ ॥

अवश्यं रक्षणं कार्यमदृष्टे विजने वने ।

अग्रतः गच्छ सौमित्रे सीता त्वामनुगच्छतु ॥ ९५ ॥

पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् ।

अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ ॥ ९६ ॥

न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।

अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ ९७ ॥

प्रनष्टजनसम्बाधं क्षेत्रारामविवर्जितम् ।

विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ॥ ९८ ॥

शृत्वा रामस्य वचनं प्रतिस्थे लक्ष्मणोऽग्रतः ।

अनन्तरं च सीतायाः राघवो रघुनन्दनः ॥ ९९ ॥

गतं तु गङ्गापारमाशु

रामं सुमन्त्रः प्रततं निरीक्ष्य ।

अध्व प्रकर्षाद्विनिवृत्त दृष्टिः

मुमोच बाष्पं व्यथितस्तपस्वी ॥ १०० ॥

स लोकपालप्रतिमप्रभाववान्

तीर्त्वा महात्मा वरदो महानदीम् ।

ततः समृद्धान् शुभसस्यमालिनः

क्रमेण वत्सान् मुदितानुपागमत् ॥ १०१ ॥

तौ तत्र हत्वा चतुरः महामृगान्

वराहमृश्यं पृषतं महारुरुम् ।

आदाय मेध्यं त्वरितं बुभुक्षितौ।

वासाय काले ययतुर्वनः पतिम् ॥ १०२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥

valmiki ramayan ayodhyakand adhyay 52