Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड त्रिचत्वारिंशः

॥ कौसल्यापरिदेवितम् ॥

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।

कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ १ ॥

राघवे नरशार्दूले विषमुप्त्वाहिजिह्मगा ।

विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २ ॥

विवास्य रामं सुभगा लब्धकामा समाहिता ।

त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ ३ ॥

अथ स्म नगरे रामश्चरन्भैक्षं गृहे वसेत् ।

कामकारो वरं दातुमपि दासं ममात्मजम् ॥ ४ ॥

पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः ।

प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ ५ ॥

गजराजगतिर्वीरो महाबाहुर्धनुर्धरः ।

वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ ६ ॥

वने त्वदृष्टदुःखानां कैकेय्याऽनुमते त्वया ।

त्यक्तानां वनवासाय कान्ववस्था भविष्यति ॥ ७ ॥

ते रत्नहीनास्तरुणाः फलकाले विवासिताः ।

कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ ८ ॥

अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः ।

सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९ ॥

सुप्त्वेवोपस्थितौ वीरौ कदायोध्यां गमिष्यतः ।

यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ १० ॥

कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ ।

नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ ११ ॥

कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।

पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ १२ ॥

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।

लाजैरवकरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ १३ ॥

प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ ।

उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ १४ ॥

कदा सुमनसः कन्या द्विजातीनां फलानि च ।

प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ १५ ॥

कदा परिणतो बुद्ध्या वयसा चामरप्रभः ।

अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ॥ १६ ॥

निस्संशयं मया मन्ये पुरा वीर कदर्यया ।

पातुकामेषु वत्सेषु मातृणां शातिताः स्तनाः ॥ १७ ॥

साहं गौरिव सिंहेन विवत्सा वत्सला कृता ।

कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ १८ ॥

न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् ।

एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ १९ ॥

न हि मे जीविते किञ्चित्सामर्थ्यमिह कल्प्यते ।

अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥ २० ॥

अयं हि मां दीपयते समुत्थितः

तनूजशोकप्रभवो हुताशनः ।

महीमिमां रश्मिभिरुद्धतप्रभो

यथा निदाघे भगवान्दिवाकरः ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

valmiki ramayan ayodhyakand adhyay 43