Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकोनसप्ततितमः

॥ भरतदुःस्वप्नः ॥

यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् ।

भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥ १ ॥

व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।

पुत्रः राजाधिराजस्य सुभृशं पर्यतप्यत ॥ २ ॥

तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।

आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥ ३ ॥

वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे ।

नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ॥ ४ ॥

स तैः महात्मा भरतः सखिभिः प्रियवादिभिः ।

गोष्ठी हास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥ ५ ॥

तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् ।

सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ ६ ॥

एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।

शृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ॥ ७ ॥

स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् ।

पतन्तमद्रिशिखरात् कलुषे गोमयेह्रदे ॥ ८ ॥

प्लवमानश्च मे दृष्टः स तस्मिन् गोमयह्रदे ।

पिबन्नञ्जलिना तैलं हसन्नपि मुहुर्मुहुः ॥ ९ ॥

ततस्तिलौदनं भुक्त्वा पुनः पुनरधः शिराः ।

तैलेनाभ्यक्त सर्वाङ्गस्तैलमेवावगाहत ॥ १० ॥

स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि ।

उपरुद्धां च जगतीं तमसेव समावृतम् ॥ ११ ॥

औपवाह्यस्य नागस्य विषाणं शकलीकृतम् ।

सहसा चापि संशान्तं ज्वलितं जातवेदसम् ॥ १२ ॥

अवतीर्णां च पृथिवीं शुष्कांश्च विविधान् द्रुमान् ।

अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान् ॥ १३ ॥

पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् ।

प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ॥ १४ ॥

त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ।

रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ १५ ॥

प्रहसन्तीव राजानं प्रमदा रक्तवासिनी ।

प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ॥ १६ ॥

एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् ।

अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥ १७ ॥

नरः यानेन यः स्वप्ने खरयुक्तेन याति हि ।

अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते ॥ १८ ॥

एतन्निमित्तं दीनोऽहं तन्नवः प्रतिपूजये ।

शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः ॥ १९ ॥

न पश्यामि भयस्थानं भयं चैवोपधारये ।

भ्रष्टश्च स्वरयोगो मे छाया चोपहता मम ॥ २० ॥

जुगुप्सन्निव चात्मानं न च पश्यामि कारणम् ।

इमां हि दुःस्वप्न गतिं निशाम्य ताम्

अनेक रूपामवितर्कितां पुरा ।

भयं महत्तद्धृदयान्न याति मे

विचिन्त्य राजानमचिन्त्य दर्शनम् ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥

valmiki ramayan ayodhyakand adhyay 69