Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड षोडशः

॥ रामप्रस्थानम् ॥

स तदन्तःपुरद्वारं समतीत्य जनाकुलम् ।

प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ १ ॥

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः ।

अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २ ॥

तत्र काषायिणो वृद्धान्वेत्रपाणीन् स्वलङ्कृतान् ।

ददर्श विष्ठितान्द्वारिः त्र्यध्यक्षान्सुसमाहितान् ॥ ३ ॥

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ।

सहसोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः ॥ ४ ॥

तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः ।

क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ॥ ५ ॥

ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः ।

सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ६ ॥

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः ।

तत्रैवानाययामास राघवप्रियकाम्यया ॥ ७ ॥

तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम् ।

ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ ॥

वराहरुधिराभेण शुचिना च सुगन्धिना ।

अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ ९ ॥

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।

उपेतं सीतया भूतश्चित्रया शशिनं यथा ॥ १० ॥

तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।

ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ ॥

प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने ।

राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२ ॥

कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।

महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ १३ ॥

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ।

ततः सम्मानयामास सीतामिदमुवाच ह ॥ १४ ॥

देवि देवश्च देवी च समागम्य मदन्तरे ।

मन्त्रयेते ध्रुवं किञ्चिदभिषेचनसंहितम् ॥ १५ ॥

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।

सञ्चोदयति राजानं मदर्थं मदिरेक्षणे ॥ १६ ॥

सा प्रहृष्टा महाराजं हितकामानुवर्तिनी ।

जननी चार्थकामा मे केकयाधिपतेः सुता ॥ १७ ॥

दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।

सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ १८ ॥

यादृशी परिषत्तत्र तादृशो दूत आगतः ।

ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १९ ॥

अहं शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । [हन्त]

सह त्वं परिवारेण सुखमास्व रामस्व च ॥ २० ॥

पतिसम्मानिता सीता भर्तारमसितेक्षणा ।

आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥

राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।

कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ २२ ॥

दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् ।

कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २३ ॥

पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः ।

वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २४ ॥

अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ।

निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥

पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ।

लक्ष्मणं द्वारि सोऽपश्यत्प्रह्वाञ्जलिपुटं स्थितम् ॥ २६ ॥

अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः ।

स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥

ततः पावकसङ्काशमारुरोह रथोत्तमम् ।

वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः ॥ २८ ॥

मेघनादमसम्बाधं मणिहेमविभूषितम् ।

मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसम् ॥ २९ ॥

करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ।

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ ३० ॥

प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ।

स पर्जन्य इवाकाशे स्वनवानभिनादयन् ॥ ३१ ॥

निकेतान्निर्ययौ श्रीमान्महेन्द्रादिव चन्द्रमाः ।

छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ ३२ ॥

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ।

ततो हलहलाशब्दस्तुमुलः समजायत ॥ ३३ ॥

तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ।

ततो हयवरा मुख्याः नागाश्च गिरिसन्निभाः ॥ ३४ ॥

अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः ।

अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः ॥ ३५ ॥

खड्गचापधराः शूराः जग्मुराशंसवो जनाः ।

ततो वादित्रशब्दास्तु स्तुतिशब्दाश्च वन्दिनाम् ॥ ३६ ॥

सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ।

हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥ ३७ ॥

कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः ।

रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ ३८ ॥

वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।

नूनं नन्दति ते माता कौसल्या मातृनन्दन ॥ ३९ ॥

पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ।

सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम् ॥ ४० ॥

अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।

तया सुचरितं देव्या पुरा नूनं महत्तपः ॥ ४१ ॥

रोहिणीव शशाङ्केन रामसम्योगमाप या ।

इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥ ४२ ॥

शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।

आत्मसम्पूजनैः शृण्वन्ययौ रामो महापथम् ॥ ४३ ॥

स राघवस्तत्र कथाप्रपञ्चान्

शुश्राव लोकस्य समागतस्य ।

आत्माधिकारा विविधाश्च वाचः

प्रहृष्टरूपस्य पुरो जनस्य ॥ ४४ ॥

एष श्रियं गच्छति राघवोऽद्य

राजप्रसादाद्विपुलां गमिष्यन् ।

एते वयं सर्वसमृद्धकामाः

येषामयं नो भविता प्रशास्ता ॥ ४५ ॥

लाभो जनस्यास्य यदेष सर्वं

प्रपत्स्यते राष्ट्रमिदं चिराय ।

न ह्यप्रियं किञ्चन जातु कश्चि-

-त्पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ ४६ ॥

स घोषवद्भिश्च हयैर्मतङ्गजैः

पुरःसरैः स्वस्तिकसूतमागधैः ।

महीयमानः प्रवरैश्च वादकै-

-रभिष्टुतो वैश्रवणो यथा ययौ ॥ ४७ ॥

करेणुमातङ्गरथाश्वसङ्कुलं

महाजनौघप्रतिपूर्णचत्वरम् ।

प्रभूतरत्नं बहुपण्यसञ्चयं

ददर्श रामो रुचिरं महापथम् ॥ ४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥ १६ ॥

valmiki ramayan ayodhyakand adhyay 16