Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड षड्विंशः

॥ सीताप्रत्यवस्थापनम् ॥

अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम् ।

कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥

विराजयन्राजसुतो राजमार्गं नरैर्वृतम् ।

हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ २ ॥

वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।

तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥

देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना ।

अभिज्ञा राजधर्मानां राजपुत्रं प्रतीक्षते ॥ ४ ॥

प्रविवेशाथ रामस्तु स्व वेश्म सुविभूषितम् ।

प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ ५ ॥

अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।

अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६ ॥

तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।

तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ ७ ॥

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।

आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥ ८ ॥

अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव ।

प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ ९ ॥

न ते शतशलाकेन जलफेननिभेन च ।

आवृतं वदनं वल्गु छत्रेणाभिविराजते ॥ १० ॥

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।

चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ११ ॥

वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ ।

स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूतमागधाः ॥ १२ ॥

न ते क्षौद्रं च दधि च ब्राह्मणा वेद पारगाः ।

मूर्ध्नि मूर्धाभिषिक्तस्य दधति स्म विधानतः ॥ १३ ॥

न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः ।

अनुव्रजितुमिच्चन्ति पौरजापपदास्तथा ॥ १४ ॥

चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः ।

मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १५ ॥

न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः ।

प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ १६ ॥

न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन ।

भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम् ॥ १७ ॥

अभिषेको यदा सज्जः किमिदानीमिदं तव ।

अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १८ ॥

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः ।

सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ १९ ॥

कुले महति सम्भूते धर्मज्ञे धर्मचारिणि ।

शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ २० ॥

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे ।

कैकेय्यै मम मात्रे तु पुरा दत्तो महावरौ ॥ २१ ॥

तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ।

प्रचोदितः ससमयो धर्मेण प्रतिनिर्जितः ॥ २२ ॥

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।

पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥ २३ ॥

सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ।

भरतस्य समीपे ते नाहं कथ्यः कदाचन ॥ २४ ॥

ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।

तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ २५ ॥

नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।

अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २६ ॥

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् ।

स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ २७ ॥

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् ।

वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ २८ ॥

याते च मयि कल्याणि वनं मुनिनिषेवितम् ।

व्रतोपवासपरया भवितव्यं त्वयानघे ॥ २९ ॥

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।

वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥ ३० ॥

माता च मम कौसल्या वृद्धा सन्तापकर्शिता ।

धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥ ३१ ॥

वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः ।

स्नेहप्रणयसम्भोगैः समा हि मम मातरः ॥ ३२ ॥

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।

त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३३ ॥

विप्रियं न च कर्तव्यं भरतस्य कदाचन ।

स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ ३४ ॥

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।

राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ३५ ॥

औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः ।

समर्थान्सम्प्रगृह्णन्ति परानपि नराधिपाः ॥ ३६ ॥

सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी ।

भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ ३७ ॥

अहं गमिष्यामि महावनं प्रिये

त्वया हि वस्तव्यमिहैव भामिनि ।

यथा व्यलीकं कुरुषे न कस्यचि-

-त्तथा त्वया कार्यमिदं वचो मम ॥ ३८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥ २६ ॥

valmiki ramayan ayodhyakand adhyay 26